________________
પા. ૧ સૂ. ૨૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[ ૬૧
ક્લેશ, કર્મવિપાક અને આશયથી ન સ્પર્શાવેલો વિશેષ પ્રકારનો પુરુષ ઈશ્વર છે. ૨૪
भाष्य
अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः ।
कैवल्यं प्राप्तास्तहि सन्ति च बहवः केवलिनः, ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्संबन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।
योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विनिर्निमित्त इति ? तस्य शास्त्रं निमित्तम् ।
शास्त्रं पुनः किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् ।
एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः । एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्, न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति, कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोयुगपत्कामितार्थप्राप्ति स्ति, अर्थस्य विरुद्धत्वात् तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च पुरुषविशेष इति ॥२४॥
सविधा वगेरे देशो छ. दुशण (धर्म) सने मशण (अधर्म) કર્મો છે, એમનું ફળ વિપાક છે. એમને અનુરૂપ વાસનાઓ આશય છે. આ બધાં મનમાં રહે છે, છતાં પુરુષમાં છે, એમ કહેવાય છે, કારણ કે એ એમનાં ફળ ભોગવનાર છે. જેમ યોદ્ધાઓમાં રહેલા જય કે પરાજય સ્વામી