________________
પા. ૧ સૂ. ૧૬] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી
विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनःपुन्येन निषेवणं तस्मात्तस्य दर्शनस्य शुद्धी रजस्तमःपरिहाण्या सत्त्वैकतानता तया यो गुणपुरुषयोः प्रकर्षेण विवेक: पुरुष: शुद्धोऽनन्तस्तद्विपरीता गुणा इति तेनाप्यायिता बुद्धिर्यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुक्तः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति । तत्तस्माद्द्वयं वैराग्यम् । पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकणकलङ्कसंपृक्ते चित्तसत्त्वे । तच्च तौष्टिकानामपि समानम् । ते हि तेनैव प्रकृतिलया बभूवुः । यथोक्तम्वैराग्यात्प्रकृतिलय इति ( सां० का० ४५ ) । तत्र तयोर्द्वयोर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषयतां सूचयति । तदेव हि तादृशं चित्तसत्त्वं रजोलेशमलेनाप्यपरामृष्टमस्याश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमःसंपर्कान्मलिनतामनुभवति । वैराग्याभ्यासविमलवारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयति-यस्योदये प्रत्युदितख्यातिः । ख्यातिविशेषे सति वर्तमानख्यातिमानित्यर्थः । प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति - जीवन्नेव विद्वान्मुक्तो भवति (भाष्य ४।३० ) । संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वादिति भावः । कुतः प्राप्तं, यतः क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः । नन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य संक्रमः प्राणिनाम् । तत्कुतः कैवल्यमित्यत आह-छिन्न इति । श्लिष्टानि निःसंधीनि पर्वाणि यस्य स तथोक्तः । धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते । सोयं भवसक्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति - 'क्लेशमूलः कर्माशयः' (२।१२) 'सति मूले तद्विपाकः, (२।१३) इति । ननु प्रसंख्यानपरिपाकं धर्ममेघं च निरोधमन्तरा किं तदस्ति यज्ज्ञानप्रसादमात्रमित्यत आह- ज्ञानस्यैवेति । धर्ममेघभेद एव परं वैराग्यं नान्यत् । यथा वक्ष्यति - 'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः' (४।२९) । 'तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्' (४।३१) इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यामिति ॥ १६ ॥
-
[ ४७
અપર વૈરાગ્ય કહીને પર કહે છે : પુરુષના જ્ઞાનથી ગુણોમાં વિરક્તિ થાય એ પર વૈરાગ્ય છે. અપર વૈરાગ્ય પરનું કારણ છે. પરમાં પ્રવેશવાનું દ્વાર છે. જોયેલા અને સાંભળેલા વિષયોમાં દોષદર્શી વિરક્ત છે, એમ કહીને અપર વૈરાગ્ય કહ્યો. પુરુષદર્શનનો અભ્યાસ એટલે આગમ, અનુમાન અને આચાર્યના ઉપદેશથી જાણેલા આત્માનું દર્શન, અને એનો અભ્યાસ એટલે વારંવાર સેવન. એનાથી