________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवमानि
ऋषभजिन ! वचस्ते वस्तु सम्यक प्रतिष्ठं
विशदिह भविकानां तन्वतां सौवचित्ते । मतिरतिकुमतं किं क्लिष्टमेतद्वचोव
त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ।।३।। जिनवर ! भवदीया योजना सारसारा
मृतमयगुणखानिः शक्षेकरी गीर्जनानाम् । क्वचिदपि हि कदा किं दोषपोषं यथैषा ।
तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥४॥ तिलतुषवदसारान् सकुलान् क्वापि संस्थां
___स्तव जिन ! वचनाब्धिप्रोत्थबिन्दूद्भवाभान् । परसमयपथस्थान्प्रेक्ष्य नाहेति कश्चि.
त्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥५॥ समवसृतिमगुस्ते सार्वदेवा विधाय
त्रिजगदभवि नाटय चित्रकृद्भक्तियुक्तेः । मरुदथ गुरुचेताः कश्चिदित्यात्तनृत्यं
तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥६॥ प्रथमजिन ! तवाज्ञा भव्य ! भव्यात्मनां स्वः
सुखलवममृतत्वं साधिना साधु दत्ते । तदुचितमवनत्वान्नापगाः किं गतांह- .
स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ।।। तव जिन ! कुलजातस्यापि बुद्धौ मरीचेः
स्वपितृनतिनुतस्याऽशस्तभावाणुभूतौ । कुलविषयमहाप्ति वीक्ष्य नाहेति कः किं.
तिलतुषतटकोणे कोटिकोष्ट्रं प्रसूता ॥८॥
For Private And Personal Use Only