________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तुतयः
श्री ऋषभजिनेन्द्र स्तुतिः-४
[ शार्दूलविक्रीडितम् ]
भव्याम्भोजविनोधनैकतरणे विस्तारिकर्मावलौ,
___ रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म ! विदुषां, सम्पादय प्रोज्झिता,
. रम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ।।१।। ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो,
दाराविभ्रमरोचिताः सुमनसो, मन्दारवा राजिताः । यत्पादौ च सुरोज्झिता सुरभयाञ्चक्रुः पतन्त्योम्बरा,
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगाद्यै नयै
.. रक्षोभं जन ! हेऽतुलांछितमदोदीर्णाङ्गजालं कृतम् ।। तत्पूज्यैर्जगतां जिनैः प्रवचनं, हृप्यत्कुवाद्यावली,
रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥३॥ शीतांशुत्विषि यत्रनित्यमदधद् गन्धाढ्यधूलीकणा,
नालीकेसरलाऽलसा समुदिताऽशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ,
नालीके सरलाऽऽलसा समुदिता शुभ्रामरीभासिता ॥४॥
x श्रीशोभनमुनिवरप्रणीता
For Private And Personal Use Only