________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेत्यवन्दनानि
१७
१७
[स्रग्धरावृत्तम् ] अर्हन् श्रीआदिनाथः प्रथमजिनवरो देवराजः प्रपूज्यः,
ध्येयस्तीर्थाधिपो यो वरमतिविभवै र्धारितोऽनेकभेदैः । कर्ता हर्ता च धर्ता सकलविधिमयः सोऽर्बुदे शैलनाथे,
सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥१॥ सर्वज्ञो वीतरागो विगतकलिमलो बुद्धबोधो विजेता,
निर्नाशो नित्यवासी सकलमतिवरः सिद्धसंख्यस्तु ध्येयः (चिंत्यः)। विश्वे रत्नेति रामो विविधगतिकरो देवतानां च स्वामी (नाथः),
सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥२॥ 'कामो वेच्छार्थदाते 'ति सुमतिकलिता अन्यलोकाः स्तुवन्ति,
लक्ष लक्ष्यो न यः सम्यगिति च विमता नास्तिका नास्ति किंचित् । शैवाः शैवं च नाथं भज भज भज भोः ! सूरिराजेन्द्रम् एतम्,
सम्यक् चैत्ये जिनेन्द्रो हरतु हरतु नो व्यापदां वः समूहम् ॥३॥
१८
[ उपजातिवृत्तम् ] श्रीआदिनाथं नतनाकिनाथम् ,
लक्ष्म्या सनाथं कृतपापमाथम् । संवेगताम्यत्कृतहेमहीरम् ,
संसारदावानलदोहनीरम् ॥१॥ निर्वाणयोषिद्घनबद्धरागं,
सश्रीकभालं, गदशाखिनागम् । संस्तौमि सुत्रासितकर्मवीरम् ,
सम्मोहधूलीहरणे समीरम् ॥२॥
युग० २
For Private And Personal Use Only