________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगा विन्दना
स्तोत्र १ श्रीशुभशीलगणिविरचितं " नाभेयस्तोत्रम् " सुरासुर महीनाथ-मौलिमालानत क्रमम् । श्री शत्रुजयकोटीर-मणि श्रीऋषभं स्तुवे ॥१॥ विभो ? त्वत्पादराजीवं, ये सेवन्ते जनाः सदा । सुरासुर नृपश्रेणिर्भजते तान् सुभक्तितः ॥२॥ तनोसि त्वं विभो ? यस्य, मानसे वासमन्वहम् । तस्य पापानि गच्छन्ति, तमांसीवदिनोदयात् ॥३॥ निरीक्ष्य त्वन्मुखाम्भोज, सुरासुरसुखप्रदम् । कृतार्थोऽहम भूवं, श्री-नाभिभूपालनन्दन ? ॥४॥ सुवर्णवर्णसंकास- हाति भरप्रभो ? । निजाङ्घिकमलावासं देहिमे नाभिनन्दन ॥५॥
स्तोत्र २ श्रीशत्रुजय महात्म्ये धनेश्वरसूरि प्रणीतं "जिन स्तोत्रम्" क्वाऽहं बुद्धिधनौहीन;, क्व च त्वं गुणसागरः ॥ तथापि त्वां स्तवीम्येषस्त्द्-भक्ति भुखरी कृतः ॥१॥ त्वया हतास्तपोऽस्त्रेण, सर्वथाऽन्येन दुर्जयाः । रागाद्या रिपवः स्वामिन्नात्मनः स्वार्थद्यातकाः ॥२॥ रागाद्य रिपुभिर्देवाभासा अन्ये विडम्बिताः । पश्यन्ति ते बहिः शत्रून् विहायान्तर्निकर्तिनः ॥३॥ अनन्त ज्ञान महात्म्य-वारिधे ? चतुर ? प्रभो ? । जगत्प्रदीप ? भगवन् ? नाभेय ? भवते नमः ॥४॥ अष्टाङ्गानि तथा नाथ ? भवान् योगस्य निर्ममे । यथा तानि प्रवर्तन्ते कर्माष्टकनिषिष्टये ॥५॥ शत्रुझयशिरोरत्न, श्रीनाभिकुळ भास्करम् । स्वपिवर्ग व्यागारनिदानं त्वां विभो ! स्तुमः ॥६॥
For Private And Personal Use Only