________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगादिवन्दना
॥ अथ शत्रुजय-तीर्थस्तोत्रम् ॥ पूर्णानन्दमय महोदयमयै कैवल्जचिदृङ्मयं,
रूपातीतमयं स्वरूपरमणं स्वाभाविकश्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वादविद्यालयं,
श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥१॥ श्रीमद्युगादीश्वरमात्मरूपं, योगीन्द्रगम्यं विमलाद्रिसंस्थम् । सज्ज्ञानसदृष्टिसुहष्टलोकं, श्रीनाभिसूनुं प्रणमामि नित्यम् ॥२॥ राजादनाधस्तनभूमिभागे, युगादिदेवाघ्रिसरोजपीठम् । देवेन्द्रवन्द्य सुरराजपूज्यं, सिद्धाचलाग्रस्थितमर्चयामि ॥३॥ आदिप्रभोदक्षिणदिग्विभागे, सहस्रकूटे - जिनराजमूर्तीः । सौम्याकृतीः सिद्धततीनिभाश्च, शत्रुजयस्थाः परिपूजयामि ॥४॥ आदिप्रभोर्वक्रसरोरुहाच, विनिर्गतां श्रीत्रिपदीमवाप्य । यो द्वादशाङ्गीं विदधे जिनेशः,स पुण्डरीको जयताच्छिवाद्रौ ।।५।। चउद्दसाणं सयसंखमाणं, बावण्णसहियाण गणाहियाणं । सुपाउआ जत्थ विरायमाणा, सत्तुंजयं तं पणमामि णिच्चं ॥६॥ चत्तट्टकम्मा परिणामरम्मा, लद्धप्पधम्मा सुगुणेहिंपुण्णा । चत्तारि अट्ठादस दुन्नि देवा, अट्ठावए ताई जिणाई वंदे ॥७॥ अणतणाणीण अणंतदसिणो, अणंतसुखरवाण अणंतवीरिणो । वासं जिणा जत्थ सिवं पवण्णा, समेअसेल तमहं थुणामि ॥८॥ जत्थेव सिद्धो पढमं मुणिंदो, गणाहिवो पुंडरिओ वसिट्ठो । अणेगसाहू परिवार संजुओ, तं पुंडरीआचलमच्चयामि ॥९॥ विमलगिरिवतंसः सिद्धिगगाम्बुवंशः,
__ सकलसुखविधाता दर्शनज्ञानदाता । प्रणतसुरनरेन्द्रः केवलज्ञानचन्द्र,
सृजतुमुदमुदारां नाभिजन्मा जिनेन्द्रः ।।१०।। ॥ इति तीर्थराजमहामहिमाभिधानं गणाधीशकृतं स्तोत्रं सम्पूर्णम् ॥
For Private And Personal Use Only