________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशाङ्गानि रम्याणि, गणनाथकृतानि ये । सेवंते परया भक्तथा, लभंते ते शिवश्रियम् ॥३॥ चतुर्विंशतिरच्ययाः, शासनेशा महद्धयः । विघ्नविनाशिका देव्यः, शंकुर्वतु सदा मम ॥४॥
(२९)
(दण्डकवृत्तम्) स्फुरदभिनवभावसम्भूतभक्तिप्रभूतामदेन्द्राऽऽविलस्मेरमाणिक्यकोटीररत्नप्रभाजालविस्मेरताङध्रिकमलयुगरेणुसौरभ्यालुभ्यद्भवारण्यसम्भ्रान्तभव्याङ्गिरङ्गद् द्विरेफावलीमण्डलीमण्डलाऽलङ्कृतम् ॥१॥ नरसुरशिवशर्मलक्ष्मीलसत्केलिगेहायमानं प्रमोदास्पदीभूतविश्वत्रयीराजहंसीभिरासेवितं, विततसुखप्तमाधि स्तुवे देवदेवं प्रभोः स्वामि सीमन्धरस्य प्रभाते प्रभाते पदाब्जद्वयं भक्तिः ॥२॥ नवजलदगम्भीर विस्फुर्जदूर्जस्विसद्देशनारम्भसंरम्भविद्राविता प्रौढकन्दर्पदोर्दण्डदपोर्जिता, असमशमसुधाम्बुघेर्लोककल्लोलमालाविलासप्रसर्पप्रभाव(वो ?)द्यता नाशितक्रोधसम्बन्धसर्पोत्कराः ॥३॥ दलिततिमिरराजीव जीवेशशोभानिरासक्षमाक्षामधामैकधामाभिरामाननश्रीविलासाश्रिताः, त्रिभुवनजनवन्द्यपादरविन्दद्वयास्ते जिना मे दिशन्तु श्रियं शाश्वतीसिद्धिसौधाधिसंवासिनी सर्वदा ॥४॥
For Private And Personal Use Only