________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
EXAXESXSAEXXXXXXXXXXXXREERS
अहर्नियं कृतं पापं दूरीकर्तुं त्रिधा मया । प्रतिक्रमणमुत्कृष्टं विहितं विधिना ततः सर्व नित्यविधि कृत्वा शयित्वा धरणीतले । स्वस्थेन मनसा निद्रामभजं धर्मभाविता तत्राऽहं गिरिमारूढा भ्रमन्तीव लताऽन्तरे । स्वमं व्यलोकयं पश्चा-जाग्रद्भाव समागता
॥६६७॥ ततश्च पितरं गत्वा पर्यपृच्छ नतानना । कि फलं जनकैतस्य स्वमस्य ब्रूहि साम्प्रतम्
॥ ६६८॥ तातोऽपि मां समुद्दिश्या-कथयत्स्वमजं फलम् । स्वमशास्त्रानुसारेण विद्यतेऽस्य शुभ फलम् उक्तश्च-समधातोः प्रशान्तस्य, धार्मिकस्यातिनीरुजः । स्यातां पुंसो जिताक्षस्य स्वमौ सत्यौ शुभाशुभौ ॥ ६७० ॥ अनुभूतः श्रूतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्धृतश्चिन्तासन्ततिसम्भवः
॥ ६७१॥ देवताद्युपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वमः स्यानवधा नृणाम्
॥६७२॥ प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः समः सत्यस्तु त्रिभिरुत्तरैः
॥६७३॥ सद्भाग्यं ज्ञायते स्वमादुर्भाग्यश्च शरीरिणाम् । आनन्दश्च तथा शोकः जीवनं मरण पुरा
॥ ६७४॥ आममांसं व्रणश्चैव रुधिराई व्यथाध्वनिः । हस्तपादविभङ्गश्च वहिज्वाला भयङ्करा
॥ ६७५ ॥ एतानि स्वमदृष्टानि जनयन्त्यशुभ फलम् । गजोक्षगिरिहर्येषु क्षीरिवृक्षोत्तमेष्वपि
॥६७६॥ निजात्मानं यदापश्ये-दायति लमते शुभाम् । स्वमे लङ्घयते योऽन्धि नदीश्च स न दुःखितः ॥ ६७७॥ पुनर्नरादिजातीनां दर्शनं प्रायशः शुभम् । फलं ददाति सुप्तेऽपि स्वमशास्त्राऽनुसारतः
॥ ६७८॥
XXXX XSRXXXXXXXXXXXXXXXXXX
For Private And Personlige Only