________________
Shri Mahavir Jain Aradhana Kendra
श्री तरंगक्ती कथा
॥ १५ ॥
www.khatirth.org
प्रियं प्राबोधयं दीनवदना साधुलोचना । स तु निश्चेतनीभूय पतितो नावदद्भुवि तथापि मुग्धया ज्ञातं मया तस्मिन् क्षणे हृदि । जीवन्नास्तेऽधुनाप्येष शरपीडातिमूर्च्छितः यदा मृतइति ज्ञातं तदाऽहं दुःखिता भृशम् । तद् दुःखवर्णनं नैव कर्त्तुं केनापि शक्यते कियत्कालमहं जाता यतो निश्चेतना तदा । दुरन्तवेदना मग्ना निर्विष्णा जीवनादपि लब्ध्वास्मृतिमहं पश्चाच्च=च्या बणि शोकतः । पर्यक्षिपं सुरम्याणि विलपन्ती मुहुर्मुहुः मद्भर्तु पक्षगुम्फेषु चञ्च्वाघाताः पुनः पुनः । कृताश्रालिङ्गनं दत्तं पक्षाभ्यां तञ्छीरीरके परितः सञ्चरन्ती तं गतासुं प्रेमबन्धनात् । अकार्ष रोदनश्चैवं विषण्णमानसा भृशम् गङ्गाया भूषणं केन पापेन निहतो भवान् । स्वामिन्! सुखेर्ष्यया केन विनाथाऽहं विनिर्मिता यतो वियोगजं दुःखं वह्निज्वालेव मानसम् । प्रज्वालयति मेऽत्यन्तं कस्याग्रे पूत्करोम्यहम् कनु मां खदधीनजीवनां प्रविकीर्य क्षणनष्टसौहृदः । नलिनीं क्षत सेतुबन्धनो जलसंघात इव प्रधावितः विधिना कृतमधेसिनं ननु मां तेऽत्र बधे विमुञ्चता । अनपायिनि संश्रये तरौ द्विपभने पतनाय वल्लरी दुःखदावानले मग्नाः प्रभूतभयदायिनि । विचारातिविमूढात्मा शुद्धिहीनाऽस्मि साम्प्रतम् स्वामिन्! सरोवरोपान्तं त्वद्वियोगव्यथार्दिता । क्रीडानन्दमहं भोक्तुं कथं शक्ष्यामि पूर्ववत् आवयोरन्तरे पद्मपत्रेचे व्यवधायकम् । चिरकालवियोगस्य दुःखं मेऽजनि शल्यवत्
For Private And Personal Use Only
॥ ३८९ ॥
।। ३९० ।।
॥ ३९१ ॥
॥ ३९२ ॥
॥ ३९३ ॥
॥ ३९४ ॥
।। ३९५ ॥ ॥ ३९६ ॥
॥ ३९७ ॥
॥ ३९८ ॥
।। ३९९ ॥
॥। ४०० ॥
॥। ४०१ ॥
॥ ४०२ ॥
Acharya Shri Kassagarsuri Gyanmandir
॥ १५ ॥