SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra Achanh sagan Gyaan श्रीतरंगवती कथा ॥५॥ तत्प्रियाऽभूद्रमारम्या, कमला शीलशालिनी, दयादाक्षिण्यसंयुक्ता, सौभाग्यगुणवत्तरा कियत्काले गते तस्याः, श्रेष्ठिन्याः कुक्षिसंभवाः । अभूवनङ्गजा अष्टौ, क्रमतः सत्वशालिनः ॥ ११२॥ यमुनाऽभ्यर्थनातोऽहं, तेषामुपरि तद्गृहे । सञ्जाता फलरूपा तत्परिवारसुखावहा ।।११३ ॥ जातायां मयि तातेन, मामकेन महोत्सवः । व्यधायि मोदमानेन, पौरलोकमुदावहः ॥ ११४ ॥ मत्पालनाय तातेन, दास्यः संरक्षिताः शुमाः । सूतिकाकर्मकुशला-चक्रस्ताः समयोचितम् ॥ ११५ ॥ नालच्छेदादिकं कृत्वा, पित्राऽऽनन्देन भोजिताः सम्बन्धिनः समाकार्य, सर्वे सपरिवारकाः ततो जन्मादिसंस्कारा-विहिता विधिपूर्वकम् । मत्तातेन प्रमोदेन, यथाशक्त्यनुसारतः यमुनातरङ्गस्वम-प्रभावेणाऽभवं ततः । जाता तरङ्गवत्याख्या, मम पित्रादिसमता ॥ ११८॥ शयने दुःखिताऽहं चेत्, करपादादिताडनम् । कुन्ती मां विलोक्याशु, धात्री मेधारयत्स्वयम् ॥ ११९ ॥ दास्यो धात्री च मां लावा, हस्तयोः सनि स्थिताः । बहुधा रमयामासुः पालयन्त्यो दिवाऽनिशम् ॥१२० ।। सुवर्णमयरम्याणि, क्रीडितुं क्रीडनानि च । आनयामास मत्तातः, शालमञ्जिमुखानि वै ॥ १२१ ।। अपेक्षिष्ट मया यद्यत, तत्त्सर्व समाहृतम् । व्यलोक्यत महानन्द-सेविन्या सुमनोहरम ॥१२२॥ सम्बन्धिनश्च मे सर्वे, निजोत्सङ्गे निधाय माम् । बहुभिर्लालयामासुः प्रमोदाल्लालनादिभिः। ॥ १२३ ॥ निरीक्ष्य मा परीवारः, पितुर्मे मुदितोऽभवत् । शनैः शनैः पदार्थेषु, दृष्टिक्षेपं व्यधामहम् ॥१२४ ॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy