________________
ShriMahavir JanArchanaKendra
Achhaltung
मोदरंगवती
第老老老老老老老老老老老老老老老老老老老
ततस्तुष्टेन भक्तेन तेन नागार्जुनेन सिद्धक्षेत्रोपत्यकायां स्वपरमोपकारिणां तेषां स्मृतये-पादलिप्तं नाम पुरं (पालीताणा) निर्मापितम् । | गिरिनारोपर्यपि प्रभूतानि धर्मकार्याणि सम्पादितानि । एवं देशनया सर्वान् भव्यजन्तून बोधयन्तः परेचरणाः स्वायुषोऽल्पत्वं विज्ञाय सिद्धक्षेत्रं गत्वा द्वात्रिंशद्दिनानि यावदनशनं कृत्वा वर्जग्मुः। तेषां समयविषये तु तादृशविस्पष्टप्रमाणाऽभावेन निश्चयेन किमपि वक्तुं न शस्य तथाऽपि विक्रमस्य प्रथमशताब्दया द्वितीयचरणमारम्य द्वितीयशतान्याः पूर्वार्धाऽभ्यन्तरे तेषां स्थितिरासीदित्यनुमीयते । | यतस्ते आर्यखपुटमहेन्द्रोपाध्याय-विक्रमादित्यवाक्यविद्यमानश्रीशालिवाहनवदीयामात्यशूद्रकादीनां विक्रमप्रथमशतान्यां वर्तमानानामैतिहासिकपुरुषाणां समकालवर्तिनोऽभूवमिति प्रभावकचरितेन निश्चितमेव भवति । केचिदन्वेषकास्तु महावीरनिर्वाणतः ६१७ तमे वर्षे युगप्रधानपदभाजां ६८४ तमे वर्षे च स्वर्गजुषां वाचकश्रीमदायनागदस्तिमरीणां कुशानवंशाधिपसामन्तस्य मुरुण्डस्य च | समकालिनकत्वमपि वर्णयन्तः तेषां सामान्यतः स्थितिकालं विक्रमतृतीयश्शताब्दयाः पूर्वार्धमेव निर्दिशन्ति । परमपूज्याः महोपाध्यायाः श्रीसिद्धिमुनिपादास्तु वाचकभीमदाय॑नागहस्तिरिभ्यो विद्याधराम्नायोद्भवं नागहस्तिसूरि पृथग् मत्वा मुरुण्डमपि कुश्शानानांन किन्तु-पार्थियननृपाणां सामन्तं भूपं मन्यमाना विद्याधराऽऽम्नायोद्भवनागहस्तिसमानकालिकं पादलिमं विक्रमस्य द्वितीपशता न्यां तदनन्तरं वा न किन्तु प्रथमशताब्द्यामेव निचिन्वन्ति । एवञ्च प्रभावकचरिते प्रदर्शितं श्रीपाइलिप्तरीणां श्रीमदायखपुटादिसमकालिकत्वमपि सम्पादितं भवतीति निगदन्ति । वयन्तु तदेव सम्पगिति मन्यामहे । पुरा किल विद्याधरनामा वंशः समभवत् । तदंश. जातेभ्यः श्रीमदार्यविद्याधरगो पार सूरियोपि विद्याधरनाम्नी शाखा प्रादुर्बभूव । अथ वज्रसेगारीणां समबे विद्याधरनामकेम्पस्त
KEKKER****KKRISOR.
For Private And Personlige Only