________________
Shri Mahavir Jain Aradhana Kendr
EXEEEEEEEE
www.kobatirth.org
उपाश्रयान्तर्गमनादनन्तरं सदा निमग्ना स्वप्रमादयोगे । चारित्रनिष्ठाक्रमतो गुणानां वृद्धि परां चेतसि साधयन्ती ॥ १ ॥ धर्मावधानप्रयता च शुक्लध्यानस्थिता नाशितघातिकर्मा । तरंगवत्यल्पतरेण कालेनैव प्रपेदे किल के लिलम् ॥ २ ॥ सहस्रपत्रे सुरनिर्मितेन्जे स्थिता प्रभूतान् भविनः प्रबोध्य । सा ध्यानयोगात्परिभूतबाधां निर्वाणनिः श्रेणिमथाऽऽरुरोह ॥ ३ ॥ धर्माषको धर्मगुरुस्तदीयः पतिः पुरागो मुनिपद्मदेवः । उमौ समाराध्य सुचित्रतानि समीयतुः केवलिनौ च सिद्धिम् ॥ ४ ॥ मातापिताऽथ वसुरौ च तस्याः सुश्राविका धर्ममनाथ सोमा । स्वर्गं गताः सार्व मणुत्रतस्थाः सेत्स्यन्ति चैवे तु महाविदेहे ॥५ चण्डप्रद्योतननृपभार्याऽङ्गारवतीदुहिता पतिधर्मा । वासवदत्तोदायनसुराज्ञी धर्मरता सुगतिश्च बभ्रत्र ॥ ६॥
स वत्सराजोदयनोऽपि सम्यक्धर्मस्य ले मे फलमिष्टलोकम् । तत्संगिनी सारसिकाऽपि जैन-व्रतेहिनी सद्गतिमाप्स्यतीष्टाम् ॥७॥ श्रीकोणिकाऽवेर्मगधाधिभर्तुः श्रीवत्सराजोदयनस्य काले । तरंगवस्थाः प्रकटंगवाया इथं कथा ख्यातिमत्राप लोके ॥ सा पाठकान् विस्मयिनः करोति श्राद्धांश्च धर्मे प्रयतान्विधत्ते । निर्वापयन्ती विषयान् कषायान् देशे पुरे सर्वजनप्रियाऽभूत् ॥ ९ ॥ १ अविर्नाथे वो मेषे शैमूषिककम्बले ॥ इतिमेदिनी ॥
4
For Private And Personal Use Only
Acharya Shri Kaissagarsun Gyanmandir