________________
अस्मदीक्षाप्रसङ्गेन वाला वृद्धास्तथा स्त्रियः । सरूपः सवयसाऽमित्रचेतसः स्नेहकातराः
॥ २४॥ उत्कचित्ताः प्रमोदाढ्याः सद्यस्तत्र समागमन् । एवं सम्बन्धिभिः सबिडजिज्ञासुभिस्तथा
॥ २५॥ विशालोप्येप आरामः संकीर्णोऽभूत् क्षणान्तरात् । संघटेन भृशं तेषामपीड्यन्त वपूंप्यपि
॥२६॥ मुखमूर्ध्वमयं चैतदुद्यानं समदृश्यत । व्रतानुरोधतस्पक्तभूषणौ नौ विलोक्य च
॥ २७॥ अस्मत्सम्बधिनः सर्षे व्यलपन्मुक्तकण्ठतः । पितरस्तु निरोक्ष्येतत्सय एवाऽहदन भृशम्
॥२८॥ तारस्वरैरतिस्नेहाद् वत्सला निजवालयोः । मदीयश्वसुरी तूर्ग हि जानन्तौ गुरुसंगतः
॥ २९॥ गर्भद्वारप्रवेशः पानविषमता स्रावसंकीर्णभाषः, सो पत्तौ स य विरसरसनता निःसहायप्रवृत्तिः । नानादुर्भावयोगो वयसि विषमता व्याधिदारिद्यपीडा, आशाभङ्गो जरायामनुचितमरणं संसृतौ कि सुखं तत् ॥ ३० ॥ तौ तस्माच्छोकवेगं स्वं, निरुध्य मां समूचतुः । निवारणाय मोहेन न तूपालम्भहेतवे । पुत्रि ! बाल्ये त्वयेदं कि साहसं विहितं हहा ! । कोमलाङ्या कथं साधुचारित्रं पालयिष्यते ! ॥३२॥ बुद्ध्या स्वास्थैर्यतः पापमिदानी नो भवेद्यथा । एतस्मिन् जोवने कष्टसाध्ये सिद्धिविधानके जीविताऽऽनन्दसौख्यानि भुक्ता भोग्यानि पालिके! । साधूनां चरित पश्चात् लया ग्राह्यं सुखेन वै। ॥ ३४॥ ततोऽहमवदं तात ! गेहिसौख्यं हिताय नो । क्षणिक विद्यते पश्चात् कटुकं च विजायते
॥ ३५॥
联军来来来来龙老电配套素慧宅宅电影史名宅宅配起来
For
And Persone