________________
Shri Mahavir Jain Aradhana Kendra
"
www.kobatirth.org
93
दयाधर्मस्यवृद्ध्यर्थ, हिंसां मा कुरु मोहतः दययैवदयावृद्धिं कुरुष्व सर्वदेहिषु ॥ ४६ ॥ दयावां मरणं श्रेयो, मा जीव ! हिंसया क्षणम् । मनस्यपि न हिंसायाः, परिणामं कुरुष्व भोः ॥४७॥ हिंसा प्रतिफलं हिंसा, दयाप्रतिफलंदया: दयाप्रेम्णैव हिंसाया, नाशोभवतिनिश्चितम् ॥४८॥ निजाऽपराधिलोकेषु, वरिषुचदयां कुरु शक्तिमद्भिर्दया कार्या, यथायोगं विवेकतः ॥ ४९ ॥ कर्मविश्वासमालम्भ्य, दयां कुरुष्व देहिनाम्. दयाकार्येच दुःखाब्धौ प्राप्तेऽपि न दद्यां त्यज ॥५०॥ दयाकार्ये भवेन्मृत्यु, स्तर्ह्यपि मा दयां त्यज दयाकार्ये च संप्राप्तं दीनत्वमपिमुक्तये ॥५१॥ गंगादिस्नानतोऽनन्त, - फलप्रदाऽस्तिसद्दया; दयैवाऽस्तिमहागंगा, स्वर्गमुक्तिप्रदायिनी ॥ ५२ ॥ दयैव सर्वतीर्थानां तीर्थमस्ति स्वभावतः दयैव सर्वयज्ञानां यज्ञमुख्या स्वभावतः ॥ ५३ ॥ अहिंसापालने सर्व-धर्माराधन सत्फलम् ; जायते सर्वदानानां फलं च त्वं दयां कुरु ॥५४॥ वेदानामपिवेदो स्ति, दयैव विश्वरक्षिणी; सर्वविश्वोपकाराथै, दयादेवीं भजस्व भोः ॥ ५५ ॥ नास्ति दयासमा माता, नाऽस्तिमित्रं दद्यासमम् नाऽस्ति दयासमोभ्राता, नाऽस्ति तीर्थ दयासमम् ॥ २६ ॥ नाऽस्ति दयासमा यात्रा, नाऽस्ति दयासमा श्रुतिः नाऽस्तिदयासमंसत्यं, दयाकृत्यं कुरुष्वभोः ॥५७॥
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only