________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वोत्कृष्टसमाधिर्हि, शुद्धोपयोगएव सः समत्वमुपयोगोऽस्ति, पूर्णानन्दमयः प्रभुः ॥७६३॥ इहैववेद्यतेसत्यं, मुक्तिःसुखं मयाऽधुना क्षयोपशमभावीय-शुद्धोपयोगभावतः '७६४॥ सर्वदोषविनिर्मुक्तः सर्वोपाधिविवर्जितः आधिव्याधिविनिर्मुक्तो, ब्रह्मानन्दः प्रवेद्यते ॥७६५॥ सर्वविषयभोगेम्यो, भिन्नं शुद्धं च निर्मलम् ज्ञानानन्दमयंब्रह्म, स्वनुभूतंमयामयि ॥७६६॥ निर्विकल्पंनिराधार, पूर्ण च सत्तयामहद् चिदानन्दमयंब्रह्म, स्वपियोगेन वेद्यते ॥७६७॥ पूर्णक्षायिकभावेन, पूर्णशुद्धाऽऽत्मनोमम: आविर्भावस्यसिड्यर्थ, मुद्यतस्वोपयोगतः ॥७६८॥ आत्मनोगुरुराऽऽत्मास्ति,-शुद्धोपयोगवानस्वयम् : स्वनुभूतोमयाध्याने, स्वनुभवन्तुपण्डिताः ॥७६९॥ देहस्थोऽत्रप्रभुयंक्त, आत्मेवमिलितोमहान्; क्षयोपशमभावेन, स्वनुभूतो मयामयि ॥७७०।। माध्यस्थ्यादिगुणैर्युक्ता, व्यवहारनयाऽऽश्रिताः शुद्धोपयोगयोग्यास्ते, गुरुस्वाऽर्पणकारिणः ॥७७१॥ धीरावीराश्चगम्भीरा, आत्मज्ञानाऽधिकारिणः मोक्षार्थमुत्थिताभव्या, गुस्पार्थेनिवासिनः ॥७७२॥ सहवासंचिरंकृत्य, परीक्ष्याऽनेकहेतुभिः विधिपूर्वसुशिष्येभ्यो, देयंज्ञानंशुभाशिषा ॥७७३॥ गुरोरनुभवप्राप्य, प्रोतिश्रद्धादिसद्गुणैः आत्मज्ञानं हृदिव्यक्तं, भक्ताः कुर्वन्तितत्क्षणम् ॥७७४॥
For Private And Personal Use Only