________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाऽहं कस्याऽपिनाकोऽपि, ममैवं पूर्णनिश्चयः सर्वस्थोऽपि न सर्वोऽह, मलक्ष्यो बाह्यलक्षणैः ।।७३९॥ सचिदानन्द आत्माऽस्मि, स्वाऽऽत्मनि स्वोऽनुभूयते; तद्वक्तुं न समर्थोऽस्मि, ब्रह्मज्ञोऽऽपि स्वभावतः ॥७४०॥ ज्ञाता ज्ञेयंच ज्ञानं त, दाऽऽत्मैवाऽह मपेक्षया; अन्तवन्तस्तु देहाद्या, अनन्त आत्मराट् स्वयम् ॥७४१॥ अन्तवत्सु न मुह्यामि, पुद्गलेषु न पुद्गली; सिद्धोऽहमाऽऽत्मसाध्योऽस्मि, निमितभिन्नवानहम् ॥७४२॥ निर्लेपीभूयसज्ज्ञानं, प्राप्य शैलूषवच्चये; सम्बन्धेषुचकार्येषु, वर्तन्ते ज्ञानिनः स्फुटम् ॥७४३॥ सर्वसम्बन्धकार्येषु, स्वाऽऽत्मानंसाक्षिभाविनः कर्तारं चैव हर्तारं, निजं जानन्ति वस्तुतः ॥७४४॥ अतः शुभाशुभेनैव, मन्यन्ते बाह्यवस्तुषु; कर्मोदयविपाकेषु, येबहुरूपिवेषवत् ॥७४५॥ सम्यग्दृष्टिगुणस्थान,-वर्तिसम्यक्त्वशालिनाम् : सर्वविरतिचारित्र,-ग्रहणेच्छा प्रवर्तते ॥७४६ सन्तितेऽविरताः स्पष्ट, सम्यग्दृष्टिमनीषिणः तयपिव्रतरागेण, स्वाऽऽत्मलक्ष्योपयोगिनः ॥७४७॥ गृहस्था विरताः सन्ति, निर्लेपागृहसंस्थिताः कुटुम्बादिककार्याणां, कारका जैनधर्मिणः ॥७४८॥ द्वादशभिः कषायैस्ते, युक्ता बताऽभिलाषिणः सम्यक्त्वदर्शनाचारै, युक्तास्युर्मोक्षमार्गिणः ॥७४९॥ सद्देवगुरुधर्माणां, साधका मोहवारकाः चरस्थावरतीर्थानां, पूजासेवाविधायिनः ॥७५०॥
For Private And Personal Use Only