________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
૪૪
पालनंच प्रतिज्ञायाः पूर्ण शुद्धाऽऽत्मसंस्मृतिः चतुर्विधमहासंघ- सङ्गसेवाप्रवर्तनम् ॥५११॥ निरुपाधिदशाप्राप्ते, हेतूनामवलम्बनम् बाह्यसनेषुनिःसङ्ग, वर्तन मान्तरं कुरु ॥५१२॥ आत्मपक्वदशाप्राप्त्यै - मोहकृत्सङ्गवर्जनम् ; यथायोग्यं प्रकर्तव्यं, यत्रतत्रयदातदा ॥५१३॥ शुद्धाऽऽत्मभावनावेगा - दाविर्भावो निजाssस्मनि; आत्माऽऽनन्दसमुद्रस्य, जायतेऽनुभवोहृदि ॥५१४॥ प्रतिक्षणं हृदिव्यक्ता, कर्तव्या ब्रह्मभावना; यत्रतत्र सदाभाव्यः शुद्धाऽऽत्मा ध्यानयोगतः ॥ ५१५ ॥ सद्गुरुभक्तिसेवाद्यै, रात्मपातो न जायतेः
3
निपातोऽपि भक्तानां गुर्वादिभक्तिकारिणाम् ॥५१६ ॥ दोषान् मुक्त्वा निजाऽऽत्मानं, प्रति क्रमणयोगतः आत्मशुद्धिर्भवेत्तृर्ण, तत्रमग्नोभवस्वयम् ॥५१७॥ सद्गुणानां प्रकाशाय दोषाणांनाशहेतवे; यद्योग्यंतत्प्रकर्तव्यं, योग्योपायैर्यथातथम् ॥ ५९८ ॥ आत्मनिभवमग्नस्त्वं, पूर्णप्रीत्याभृशं स्वयम् ; आत्माऽनुभवसंप्राप्त्या, निर्विकल्पो भविष्यसि ॥५१९ ॥ शुद्धाऽऽत्मानं विनाहान्यान्, सङ्कल्पस्त्वं भृशंत्यज सर्वथाऽऽत्मोपरिप्रेम-, धारयोत्साहवीर्यतः ॥५२०॥ यादृग्भावोभवेद्यस्य, फलतस्याऽस्तितादृशम् ; आत्मशुद्धोपयोगेन, फलंमुक्तिर्निजाऽऽत्मनः ॥ ५२१ ॥ आत्मभावेनमोक्षोऽस्ति भव्यानां भावनावताम् : भरताद्या गतामुक्ति, माऽऽत्मनो भावनाबलात् ॥५२२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only