________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૩૯
Acharya Shri Kailassagarsuri Gyanmandir
रोगादिजन्यदुःखेऽपि ब्रह्मतत्त्वविचारिणाम् ; आत्मोपयोगिनांनित्य-, मानन्दोल्लास आत्मनि ॥४५१ ॥
उपयोगेनवेत्तारं स्मारं स्मारं विचिन्तयः
विस्मृत्यबाह्यभावं त्वं-, लीनोभवनिजाऽऽत्मनि ॥४५२ || दूरीकृत्यप्रमादास्त्वं शुद्धाऽऽत्मानंस्मर द्रुतम्, एकमाऽऽत्माजगत्सारः सत्यंहृदिप्रधारय ॥४५३॥
सर्वसारस्यसारोऽय-, माऽऽत्मातत्त्वमसि स्वयम् सोऽहं प्रज्ञानमाऽऽत्माऽस्मि, कालस्य कालजित्त्वहम् ||४५४॥ वादाश्चप्रतिवादांश्च कुर्वन्तः सर्वपण्डिताः आत्मसुखं न संयान्ति, शुद्धोपयोगमन्तरा ॥ ४५५ ॥ दर्शनधर्मशास्त्राणां, मोहाल्लोकाः परस्परम्, युयन्तिकर्मबध्नन्ति, यान्तिजन्मपरम्पराम् ॥ ४५६ ॥ सर्वदर्शनधर्माणां सारंसत्यंवदाम्यहम् ; रागद्वेषक्षयः कार्यः कर्तव्यास्वाऽऽत्मशुद्धता ॥ ४५७॥ सर्वयोगादिसारोऽस्ति - संसाध्यावीतरागताः आत्मोपयोगता साध्ये, त्येवंब्रुवन्ति पण्डिताः ॥४५८ ॥ मनोवाक्कायपावित्र्या - दात्मनः पूर्णशुद्धता; कर्तव्यासासतांप्राप्या-, सत्यमेवंवदाम्यहम् ॥ ४५९ ॥ आर्याः स्युः सद्गुणैः सर्वे, सदाचारैर्भुवस्तले; मनोवाक्कायशुद्ध्याये-, स्वाऽऽत्मशुद्धिविधायिनः ॥ ४६० ॥ आत्मशुद्धिविनादेव - देवोभिर्भक्तदेहिनाम् ; मुक्तिप्रदीयतेनैव, स्वाऽऽत्मनानिजमुद्धरेत् ॥ ४६१॥
जायतेनकदामुक्ति, राविर्भूतगुणैर्विनाः
ईश्वरेणाऽपिनोदेया, सत्यमेतद्विवारय ॥४६२॥
For Private And Personal Use Only