________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
33
"
अतो जीवादिरक्षार्थ, मनुष्यैः सर्वयत्नतः यतितव्यं स्वभावेन, विश्वोपग्रह हेतवे ॥ ३७९ ॥ पशुपक्षिमनुष्याणां, रक्षणं स्वीयशक्तितः वृक्षाणां रक्षणकार्य, विवेकेन यथातथम् ॥ ३८० ॥ मातुः पितुश्च वृद्धानां सद्गुरूणां सुभक्तये; frontमबुद्धितो नित्यं, यतितव्यं स्वशक्तितः ॥ ३८१ ॥ आत्मोपयोगिभिर्भक्तैः स्वाऽन्योपकारिणःप्रति; वर्तितव्यं सुसेवाभिः सेवाधमेोऽस्ति धर्मिणाम् ॥ ३८२॥ स्वापणेन सदा सेव्यः सम्यक्त्वज्ञानदायकः आत्मोपयोगलाभार्थ, सन्तः सेव्याः सुभावतः ॥ ३८३॥ परोपकारिणां नृणां, कार्या सेवा सुभावतः सेवाधर्मसमो धर्मा, नैवभूतो भविष्यति ॥ ३८४॥ स्वोत्पन्नैः सद्गुणैः सेवा, कार्या विश्वस्थदेहिनाम्; प्रतिफलं न चाकांक्ष्यं-, सन्तो निष्कामकर्मणः || ३८५|| सात्त्विकसद्गुणैः सेवा - भक्तिकर्मादिभिर्जनैः आत्मशुद्धिः प्रकर्तव्या, साध्यं सिद्ध्यति साधनात् ॥ ३८६ ॥ विश्वसेवा सदाकार्या, प्राप्तशुद्धोपयोगिभिः; शुद्धोपयोगिनः सन्तः, सेवायामधिकारिणः || ३८७|| आत्मज्ञानं विना सेवा-, कारिणः पापबन्धकाः निष्पापा ज्ञानिनो ज्ञेया, यतस्ते स्वोपयोगिनः ॥ ३८८ ॥ क्षयोपशमभावेन, प्राप्तशुद्धोपयोगिनाम्; सतांसेवा भृशं कार्या, उपायैरपिकोटिभिः ॥ ३८९ ॥ शुद्धात्मप्रभुलीनानां, देहाध्यास विवर्जिनाम् : आत्मोन्मत्तममुष्याणां हृदिव्यक्तो प्रभुर्महान् ॥ ३९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only