________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૧
अनुलक्ष्य निजाssस्मानं, वर्तन्ते योग्यहेतुभिः अविरोधो विरुद्धेषु-, हेतुषु ब्रह्मवेदिनाम् ||३५५ || परस्पर विभिन्नेषु, बाह्येषु धर्महेतुषु; व्रतक्रियाणां सापेक्ष - हेतुत्वमुपयोगिनाम् || ३५६ ॥ मनोवाक्कायसंशुद्ध्या, सात्त्विकान्नादिना तथा; सात्विकबुद्धियोगेन, शुद्धब्रह्म प्रकाशते ॥ ३५७|| उपादाननिमित्ता ये, शुद्धोपयोग हेतवः स्वाधिकारेण संसेव्या, गोतार्थगुरुनिश्रया ॥ ३५८ ॥ श्रीचतुर्थगुणस्थान, मारभ्य स्वोपयोगताम् ; आप्नुवन्ति जना ब्रह्म-, शक्तीश्चात्मोन्नतिक्रमात् ॥ ३५९ ॥ कर्मणां निर्जरा बहव्य, चाल्पबन्धः प्रजायते; सम्यग्दृष्टिमनुष्याणा, मास्रवारम्भकारिणाम् ॥ ३६० ॥ आत्मोपयोगिनां नृणा, महिंसा आन्तरा यतः हिंसाभावं विनानैर्व, हिंसातः कर्मबन्धता ॥ ३६९ ॥ आत्मोपयोगिनां दोषा, नश्यन्ति पूर्णवेगतः आत्मशुद्धिर्भवेत्तूर्ण, तत्र किञ्चिन्न संशयः ॥३६२॥ आत्मोपयोगिनः सन्तो, गृहस्थाश्च विवेकतः बहिरन्तः प्रवर्तन्ते, मोक्षार्थं तत्प्रवृत्तयः ॥ ३६३॥ गच्छादिमतभेदाये, क्रियादिभेदवृत्तयः तत्रोपयोगिनः सन्तो, मुह्यन्ति न कदाग्रहात् ॥ ३६४ ॥ सर्वगच्छस्थिताः सन्तो, गृहस्थाश्चोपयोगिनः स्वस्वगच्छक्रियावन्तः समत्वान्मुक्तिगामिनः ॥ ३३५ ॥ सर्वगच्छक्रियादीनां तात्पर्यमाऽऽत्मशुद्धये; क्रियादिमतभेदेषु, क्लिश्यन्ति न समत्वतः ॥ ३६६॥
For Private And Personal Use Only