________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૭ आत्मशुद्धिर्भवेन्नैव, रागद्वेषक्षयं विना; ईश्वरः सपरब्रह्म, रागद्वेषक्षयङ्करः
॥३०७॥ आत्मशुद्धोपयोगेन, रागद्वेषारिसंक्षयः जीवः स्वयं सशुद्धाऽऽत्मा, वीतरागो जिनः शिवः॥३०८॥ सर्वविश्वस्वरूपोऽस्ति, स्वाऽऽत्मा स्वपरपर्यवैः पूर्णानन्दमयं ब्रह्म, स्वाऽऽत्मानं प्रेमतः स्मर । ॥३०९॥ आत्मनो दर्शनेनैव, सर्वतीर्थादिदर्शनम् ; जायते सर्वतीर्थानां, यात्राच धर्मकर्म वै. ॥३१०॥ आत्माऽहं व्यापको भिन्नः, सर्वपुद्गलपर्यवैः मनोऽसंख्यविचारेभ्यः, पृथकू शुद्धाऽऽत्मब्रह्मराट् ॥३१॥ मनोमतोद्भवै र्धमै, र्योद्धव्यं न जनैः सह; मनोमतोद्भवद्धर्मा-, ऽधीना मोहमनीषिणः ॥३१२॥ रागद्वेषमयैः सबै मनोवृत्त्युद्भवैर्मतः व्याप्तं जगद्तो ज्ञानी, सापेक्षदृष्टिधारका ॥३१३॥ मनोमतैर्विभिन्नास्यु, रात्मशुद्धोपयोगिनः आत्मज्ञाननयैः सर्वै, मनोमतविचारिणः ॥३१४॥ मनोमतोद्भवाः सर्वे, धर्मास्युरात्मवेदिनाम् ; सापेक्षदृष्टितः सत्य-, धर्माय साम्ययोगिनाम् ॥३१५॥ मनोमतविभिन्नानां, नृणामसंख्यधर्मिणाम् : आत्मधर्मस्य लाभार्थ, देयं स्याद्वादशिक्षणम् ॥३१६॥ रागद्वेषक्षयेनैव, शुद्धज्ञानं प्रकाशते, शुद्धाऽऽत्मज्ञानतः सम्यग्-सत्यतत्त्वं प्रकाशते ॥३१७॥ अध्यात्मपरिभाषायां, रागद्वेषमयं मनः कथ्यतेऽध्यात्मसामान्य-, ज्ञानिभि व्यवहारतः ॥३१॥
For Private And Personal Use Only