________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
भावनायाः प्रवाहस्य, सन्तत्याबलमाऽऽत्मनः
प्रादुर्भवतिनूनं तद्, पूर्णमैश्वर्यकारकम् औपशमिकभावेन, क्षायोपशमिकत्वतः क्षायिक भावसंजन्या, ज्ञानाद्याआत्मनोगुणाः ॥ २२७ ॥ क्षायोपशमिकत्वेन, सात्त्विकाचाऽऽत्मसद्गुणाः प्रादुर्भवन्ति गीतार्था, जानन्ति सूत्रबोधतः ॥ २२८ ॥ क्षयोपशमभावीय-, ज्ञानानन्दादिसद्गुणाः आत्मन्येव समुद्भूता, अनुभूताश्च सात्त्विकाः ॥ २२९ ॥ क्षयोपशम भावस्य, स्थिरत्वं न सदाभवेत्; क्षायिक भावमासाद्य, स्थिरा आत्मगुणाः सदा ॥ २३० ॥ मयाक्षायिकभावेन, प्राप्ता नो स्वाऽऽत्म सद्गुणाः अनुभवोऽद्यपर्यन्त, मेवं शास्त्रादितस्तथा ॥२३१॥ तथाऽपिस्वाssत्मशुद्ध्यार्थ, क्षयोपशमभावतः
ज्ञानसंयमयोगाना, मभ्यासः क्रियतेऽधुना ॥ २३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
,
शुद्धाऽऽत्मरमणाऽभ्यासाज्ज्ञानध्यानोपयोगतः
क्षायिककेवलज्ञानं, प्राप्स्येऽहं भाविजन्मनि ॥२३३॥ क्षयोपशमजन्या ये, गुणास्तेक्षायिकान्प्रति;
आन्तराहेतवोनूनं वीर्योत्साहप्रवाहतः
क्षयोपशमा, स्युर्येनिमित्तहेतवः
"
आलम्ब्याहेतवस्तेभ्यो जायन्ते स्वाऽऽत्मसद्गुणाः २३५ शुद्धाऽऽत्मजीवनं लक्ष्यं कृत्वाजीवन्तिपुद्गलैः आत्मजीवनलाभार्थ, जीवन्ति ते वपुःस्थिताः ॥ २३६ ॥ शुद्धात्मजीवनलक्ष्यं नास्तियेषांहृदिस्फुटम् ॥ जीवन्तोऽपिनजीवन्ति, पुद्गलैर्ज्ञानमन्तरा ॥ २३७ ॥
For Private And Personal Use Only
॥ २२६ ॥
॥२३४॥