________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोगतृष्णोधेः पारं, यातःकोऽपि न यास्यति, ज्ञात्वाशुद्धोपयोगेन, भोगबुद्धि निवारय ॥१३०॥ सच्चिदानन्दपूर्णोऽय, मात्मास्वाऽन्यप्रकाशकः शुद्धोपयोगतोज्ञाता, कर्मनाशकरोभवेत् ॥१३१॥ औदयिकेषुभावेषु, साक्षीसमोयदाभवेत् आत्मातदास्वरूपस्य, स्यादनुभववान्स्वयम्. ॥१३२॥ षड्द्रव्यात्मकलोकोऽस्ति, द्रव्यरूपेण शाश्वतः । अनाद्यनन्तकालीनः पुरुषाकारसास्थतः ॥१३३॥ पर्यायेणह्यनित्यः स, नित्योद्रव्यस्वरूपतः अनाद्यनन्तकालीन-षड्द्रव्यात्मकसम्मतः ॥१३४॥ आत्मद्रव्याणिसन्त्यत्र, ह्यनन्तानि निबोधत। अनादिकर्मयुक्तानि, ज्ञानेनकर्मणः क्षयः ॥१३५॥ अनादिः कर्मयुक्तोऽपि, मुक्तः स्यात्कर्मनाशतः । सद्गुरुदेवधर्माणां, श्रद्धयाज्ञानमुद्भवेत् ॥१३६॥ देवेगुरौचधर्मेच, श्रद्धाभक्तिप्रतापतः सम्यग्दर्शनसंप्राप्ति, भव्यानांजायतेशुभा ॥१३७॥ सम्यग्दर्शनसामर्थ्या-चारित्रमोहनाशतः आत्मापराऽऽत्मतांयाति,शुद्धज्ञानादिसद्गुणैः॥१३८॥ आत्मास्वाऽन्यंयदासम्यग्, जानातिचेत्तदास्वयम् ॥ तिरोभूतगुणानांस, आविर्भावंकरोतिवै ॥१३९॥ तिरोभूतगुणानांयत् , प्राकट्यंसर्वथा भवेत् मोक्ष एवपरिज्ञेय, आत्मनितत्त्ववेदिभिः ॥१४०॥ शुद्धोपयोगतोमोक्ष, आत्मनआत्मनि स्थितः तज्ज्ञाता सिद्धिमामोति,शुद्धाऽऽत्मरसवेद्वान्॥१४१॥
For Private And Personal Use Only