________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૦
Acharya Shri Kailassagarsuri Gyanmandir
आत्मोपयोगसामर्थ्या, दाऽऽत्माऽनन्तबलीभवेत् । अनेकलब्धिसम्पन्नो, भवत्येवन संशयः
॥१०६॥
मंत्रयंत्र महातंत्र - बलमाध्यात्मिकंमहत्, आत्मन एव बोद्धव्य, - मतआत्मैव शक्तिमान् ॥ १०७॥
स्थिरोपयोगतः स्थेय, मात्मन्येवाऽऽत्मना स्वयम् प्रतिक्षणंनिजध्यानं, कर्तव्यंस्थिरदीपवत्
॥१०८॥
रागद्वेषनिरोधाख्यो, योगोमोक्षप्रदायकः मनोवाक्काययोगानां, व्यापारो योग एवसः ॥१०९॥ यमानां नियमानांचे योगत्वमासनस्थच, प्राणायामस्ययोगत्वं ज्ञेयंनिमित्तहेतुतः प्रत्याहारस्य योगत्वं, धारणायाश्वसम्मतम् ध्यानान्तरसमाधेश्च, योगत्वमुपयोगिनाम् ॥ १११ ॥ सम्यग्दृष्टिमनुष्याणां - योगा मोक्षस्यहेतवः मिथ्यादृष्टिमनुष्याणां स्वर्गाभव हेतवः दर्शनज्ञानचा रत्र - तपोयोगो विवेकिनाम् : उपादाननिमित्तास्ते, योगाः सम्यगृहशांशुभाः॥११३॥ त्यागिनांचगृहस्थानां व्रतादीनांसुयोगता, स्वाधिकारेणधर्मस्य, साधकाउपयोगिनः
आन्तरबाह्ययोगाये, विचाराचारभेदतः सम्यग्दृशांच मोक्षार्थ, सन्तिसापेक्षवाद्धतः ॥ ११५ ॥
For Private And Personal Use Only
॥११०॥
॥१९२॥
॥११४॥
असंख्यामोक्षपन्थानः परब्रह्मप्रदायकाः सम्भूयसर्वयोगास्ते, साम्यायोगे मलन्तिहि ॥ ११६ ॥ शुद्धोपयोगसंप्राप्तौ नान्ययोगप्रसाधनम्
आत्मस्मृतिप्रवाहेण, वृत्तिरन्तर्मुखा सदा ॥११७॥