________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मज्ञानीभवत्येव, शुद्धोपयोगवान्जनः स्वाधिकारेणकर्माणि, कुर्वन्नपिसनिष्क्रियः ॥४६॥ पूजादिधर्मकार्येषु, भत्त्यादिपरिणामतः बाह्यतोहिंसकोऽपिस्यात्, सनिहिंसकभाववान् ॥४७॥ व्यक्तस्वाऽऽत्मोपयोगे तु, सक्रियोवापिनिष्क्रियः गृहीत्यागीजनाकोऽपि, मुक्ताऽऽत्माजायते जिनः॥४८॥ मुक्तिरसंख्ययोगैः स्याज्जिनेन्द्रैः परिभाषिता। असंख्यदृष्टियोगाना, सापेक्षीस्वाऽऽत्मयोगिराट् ॥४९॥ अतआत्मोपयोगेन, ज्ञानीशुद्धोपयोगवान् । सर्वत्रसर्वथाकर्म-, निर्जराकृदबन्धकः ॥५०॥ आत्मोन्नतिक्रमयुक्तः सम्यग्डष्टिर्यदातदा । यत्रतत्रस्थितः कर्म-कुर्वन्मुक्तोभवेद्रयात् ॥५१॥ याक्ताहगवस्थाया, माऽऽत्मज्ञानीस्वभावतः बाह्यतउच्चनीचोऽपि, मुक्तास्यात्कर्मभोगवान् ॥१२॥ कर्मोपाधिकृताभावा, स्तद्भिन्नोनिश्चयात्स्मृतः सोऽहंतत्त्वमसिप्रोक्त आत्माऽसंख्यप्रदेशकः ॥५३॥ अनन्तदर्शनज्ञान,-चारित्रवीर्यवान् स्वयम् अनन्तगुणपर्याय, रुत्पाव्ययधारकः आत्मनांसत्तयाध्रौव्य, मेकत्वं च प्रवर्तते अनित्यत्वं स्वपर्याय-गुणैराऽऽत्मसु वर्तते ॥५५॥ नित्योऽनित्यः स्वभावेन, सदसनिळयोव्ययः अनक्षरोऽक्षरोव्याप्यो, व्यापकोऽस्तिह्यपेक्षया ॥५६॥ सर्वदर्शनधर्माणां, दृष्टियुक्तो नयैर्मतः नयभङ्गविकल्पेभ्यो, भिन्नोऽस्तिनिर्विकल्पकः ॥१७॥
For Private And Personal Use Only