________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः श्रीमन्महावीर-शासनं पञ्चमारके । वस्य॑ति सर्वलोकानां, तारकं दुःखवारकम् ॥३२॥ अरिष्टनेमिनाथोक्त-मन्यथा नैव जायते । भारते वासुदेवेन, मया सत्यं प्रकाशितम् ॥३२६॥ मयोक्ता वासुदेवेन, गीता सत्यसनातना। परम्पराप्रवाहेण, कलावपि प्रवत्स्यति ॥३२७॥ कलौ वीरस्य गीतायाः, समा नान्या भविष्यति । मद्गीतायाः समावेश-स्तत्र नूनं भविष्यति ॥३२८॥ शुद्धाऽऽत्मा नेमिनाथोऽस्ति, केवलज्ञानभास्करः अन्तराऽऽत्मैव कृष्णोऽस्ति, भावितीर्थकरो महान् ॥३२९॥ शुद्धाऽऽत्मैव महावीर-स्तीर्थकृच्चरमेश्वरः आत्मैव परमाऽऽत्मास्ति, सत्तया सर्वदेहिनाम् ॥३३०॥ आत्मनः परमाऽऽत्मत्व,-प्राकट्यार्थ मनीषिणाम् जैनधर्मोपदेशोऽयं, वासुदेवेन भाषितः ।३३१॥ पठन्ति कृष्णगीतां ये, शृण्वन्ति पाठयन्ति च स्वर्ग मुक्तिं च ते यान्ति, लभन्ते सर्वमङ्गलम् ॥३३२॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्मेषु, जैनं जयतु शासनम् ॥३३॥
ॐ अहेशान्तिः ३
For Private And Personal Use Only