________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुद्ध्या विधास्ये सकलं हि कर्म, निर्लेपभावेन च वर्तिताहम् । प्रचारयिष्ये भुवि जैनधर्म, श्रीसंघसेवां च तथा करिष्ये ॥ १२६ ॥ तवाज्ञयाऽहंभुवि वर्तिताऽस्मि, निजावतारं सफलं करिष्ये, तवोपदेशे खलु सर्वधर्माः, सत्कर्म सर्व च तवोपदेशे ॥ २७ ॥ त्वच्छिक्षणे सन्ति समग्रयोगाज्ञानेन नश्यन्ति हि सर्वशोकाः सत्यं हि सम्यक्त्वमहं प्रपेदे, . त्वय्येव विश्वास इतो मदीयः ॥ १२८ ॥ जिनः परब्रह्म जगत्सु देवस्त्वत्सेवनाथ मम निश्चयोऽभूत् । जगत्परब्रह्म जिनेशवीर, तवोदयात्क्लेशगणस्यनाशः ।। १२९॥ जयप्रदं ते शरणं चकार, विश्वाश्रय श्रीप्रभुवद्धमान । त्वमाश्रयस्त्वं च गतिर्मतिमें, प्रेम्णाऽस्ति ते नाथ च"सत्यदृष्टिः॥१३० ॥ नाथोऽस्म्यहं श्रेणिक भारतेशो, गोयाम्यहं त्वां भवभीतिशून्यः । नाम्नास्ति ते मङ्गलमालिकाऽत्र, पदे पदे शक्तिरथो महद्धिः ॥ १३१ ॥
For Private And Personal Use Only