________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૧૮ कामादयः सन्ति हि दुःखमूल, भ्रान्त्या न तेषु भ्रम भारतेश। राग विना यत्र भवेच भोगो, नास्त्याऽऽत्मनस्तत्र च कर्मबन्धः ॥ ७८ ॥ कुर्वन्ति निष्कामधिया नरा वा, स्त्रियश्च सर्वव्यवहारमेव । जीवन्विमुक्तः खलु तत्र सत्यं, सर्वक्रिया चेदुपयोगतः स्यात् ॥ ७९ ॥ दयाविलीनं मन आत्मनि स्यादाऽऽत्मा जिनः स्यात्स च वीतरागः। भूते सति स्वाऽऽत्मभवैकताने, भवेद्ध्वं तत्र च मुक्तिमानम् ॥ ८० ॥ स्यु निनां चेतसि सर्वधर्माः, कुर्वन्ति यत्कर्म भवेत्स्वयोग्यम् । यत्कर्म योग्यं खलु यत्र काले, कुर्वन्ति ते योग्यमुपायमेत्य ॥ ८१ ॥ धर्मोऽस्तिसज्ज्ञानिजनान्तिकेषु, शर्माऽस्त्यपि ज्ञानिजनस्य पार्थे । स सर्वकर्माशयमाशु विद्याद्, । बजेन्न पश्चाद् भ्रमितो न च स्यात् ॥ ८२ ॥ भवेत्स्वतंत्रो व्यवहारकार्ये, वाकायचित्तानि वशानि यस्य । चतुर्विधश्चेशजैनसंघः सर्वोन्नति स्वांहि सुखेन विन्ते ॥ ८३ ॥
For Private And Personal Use Only