________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५१.
Acharya Shri Kailassagarsuri Gyanmandir
"
क्रीडाविलासमोहेन, राज्यसत्तादिमोहतः विद्याशक्त्यादिगर्वेण, नाशयन्तु न देहिनः ॥ २५९ ॥ राजानो राज्यगर्वेण, पीडयन्तु न देहिनः हिंसादिपापदोषाश्च त्यजन्तु धर्मवुद्धितः ॥२६२॥ राज्यं कुर्वन्तु सद्बुड्या, सर्वलोकहिताय च अन्यायं नैव कुर्वन्तु, सन्तु हिंसा निवारकाः ॥२६३॥ क्षत्रिया ब्राह्मणा वैश्याः शूद्राश्च विश्वमानवाः आत्मनः शुद्धिकृत्यार्थ, सन्तु दयैकतत्पराः || २६४ || विश्वदयार्द्रसंवेन, दुःखिनांनिःसहायिनाम् दुःखनाशाय सद्यत्नै, र्यतितव्यं विवेकतः ॥ २६५ ॥ पशूनां पक्षिणां दुःख, - नाशार्थं च यथातथम् भवन्तु सहयाकम, - कारिणो विश्ववत्सलाः || २६६ ॥ दयाचारिविचाराणां, सामर्थ्यं स्वाऽऽत्ममुक्तये सर्वकर्मक्षयोमोक्षो, भवेद् भावद्याबलात् ॥ २६७॥ अहिंसाधर्मिभिर्धमों, वर्धते सर्वभूतले; धर्मिभिरन्तराधर्मों, वद्ध्यते नैव पुस्तकैः ॥ २६८ ॥ अहिं साधर्मिणां वृद्ध्यै, चार्पिताः सन्तु मानवाः अहिंसातः प्रभोः प्राप्ति, र्भवत्येव न संशयः ॥ २६९ ॥ अहिंसाभावकार्याभ्यां, जैनसंघः प्रवर्त्तते सर्वधर्मिषु सः श्रेष्ठो, दयाचारविचारतः ॥ २७० ॥ रागद्वेषौ परित्यज्य, सत्यन्यायात्प्रवच्म्यहम् जैनेषु जैनशास्त्रेषु, दयाधर्मस्य मुख्यता || २७१ ॥ मृता नैव मरिष्यन्ति, जैना आर्या दयादितः आर्यदेशीयलोकानां, दयाधर्मोद्यनादितः ॥ ३७२ ॥
For Private And Personal Use Only