________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शूद्राणां च स्वधर्मोऽस्ति, साधुब्राह्मणसेवनम् धर्मिणां सेवन कार्य, हृदि धार्या दया मतिः ॥२३॥ आजीविकादिकार्येषु, न्यायवुड्या प्रवर्तनम् मनोवाकाययोगेन, दयानीतिप्रवर्तनम् । २३८॥ अहिंसादेशना कार्या, विश्वोडाराय साधुभिः आत्मवत्सर्वजीवानां, रक्षणं शिक्षणं तथा ॥२३९॥ शक्तिमतां दयादानं, क्षमातपश्चसंयमः जीवन्ति निर्बला लोकाः, शक्तानां सद्दयाबलात् ॥२४०॥ पोड्यमानान् जनान् दृष्ट्वा, शक्तिमद्भिःस्वशक्तितः तत्साहाय्यं प्रकर्तव्यं यत्र तत्र यदा तदा ॥ २४१ ।। क्लेशंभोति तथा द्वेष, वैरं त्यक्त्वा च सज्जनैः कर्तव्यं मद्दयाकर्म, दुष्टस्वार्थ विहाय च ॥ २४२ ॥ परस्परेषु भिन्नेषु, धर्मिषु प्रेमभावतः द्वेषहिंसादिकं त्यकत्वा, वर्तव्य च परस्परः ॥ २४३ ॥ अन्यायादन्यलोकानां, दुःखदान हि हिंसनम् अन्यप्रजीयदासत्व-, कृत्ये हिंसाऽस्ति तात्विको ॥२४४॥ दुष्टाशायाश्च ये दासा, हिंसां कुर्वन्ति पापिनः अन्यायोपार्जितं वित, भुनन्ति पापकर्मतः ॥४४॥ पारतन्य हि हिंसाऽस्ति, स्वातन्त्व्यं स्वदया शुभा आत्मस्वातन्त्र्यसत्कृत्य, माहंसाऽस्ति स्वभावतः ॥४४६॥ स्वाऽऽत्मराज्यमहिंसाऽस्ति, मोहराज्यंतु हिंसनम्. शुद्धोपयोग एवाऽस्ति, भावतःसद्दयाऽऽत्मनः ॥४४॥ मिथ्यात्वरागवैरायो, भावहिंसाऽस्ति देहिनाम् ; अहिंसाऽस्ति समत्व हि, बाह्यतोऽपि क्रियावताम् ॥२४८॥
For Private And Personal Use Only