________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशदृष्टान्ततोऽतीव-दुर्लभोनुभवोमहान् प्राप्यस्वाऽऽत्मा भवेत् सिद्धो, दयादिधर्मसाधनैः॥२०२॥ इति विज्ञाय भोभव्या, दयां कुर्वन्तु भावतः प्रभुसहग्मनुष्याणां, हिंसां त्यजन्तु मानवाः ॥२०३॥ अतिपापिमनुष्योऽपि, सम्यग्दृष्ट्यादिलामतः इहैवमोक्षमायाति-त्यक्त्वा हिंसादिकं क्षणम् ॥२०४॥ अतो मनुष्यघातात्वं, विरम कोट्युपायतः आत्मज्ञानं मनुष्येभ्यो, देयं हिंसानिवारकम् ॥२०॥ कोटिकोटिमहोपायै, मनुष्यसंघरक्षणम् कर्तव्यं शिक्षण देय, महिंसाचारवर्धकम् ।।२०६॥ अहिंसाचारतः शान्ति, देशेखण्डे प्रजासु च राज्येषु भवति स्पष्टा, नान्योपाया भुवस्तले ।.२०७॥ इति निश्चित्यसिद्धान्त, सर्वखण्डस्थमानवाः दयाचा विचारैश्च, प्रवतन्ते स्वभावतः ॥२०॥ आत्मन्येव सुखं सत्यं, निश्चित्य भव्यमानवाः बाह्यभोगाप्तये हिंसां, कुर्वन्तु नैव सज्जनाः ॥२०९॥ बाह्यभोगे सुखभ्रान्ति, त्यक्त्वा सत्यसुखाप्तये आत्मन्येव स्थिरीभृय, स्वाऽऽत्मानन्दरसी भव ॥२१०॥ स्वस्वधर्मस्यसत्यत्वं, कथ्यतेसर्वधर्मिभिः किन्तुतत्र न सत्यत्व, महिंसाधर्ममन्तरा ॥२११॥ ब्रह्मचर्यमहिंसैव, परब्रह्मप्रदायकम् द्रव्यतोभावतोब्रह्मा,-चर्यशक्तिप्रदायकम् ॥२१२ दुःखिलोकदयाकार्या, दुःखनाशनकर्मभिः औषधालयसंस्थानं, कार्यमुपाश्रयादिकम् ॥२१३॥
For Private And Personal Use Only