________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वधर्मस्यसारोऽस्ति, दयैवसत्यधर्मराट तदर्थधर्मयुद्धानि, कर्तव्यानि विवेकतः ॥१६६॥ आपत्कालोऽस्तिसर्वेषां, सर्वदेशीयदेहिनाम् आपत्कालीनयुद्धानि, न योग्यानि दयांविना ॥१६॥ देशस्वार्थादिमोहेन, युद्धमयां प्रवर्तते तत्रपापंप्रविज्ञाय, युद्धत्यजन्तुधर्मिणः ॥१६८।। आहंसाधर्मिसंघस्य, रक्षार्थ चापवादिकम् अल्पदोषमहाधर्म, कर्तृयुद्धं प्रवर्तते ॥१६९॥ औत्सर्गिकेणमार्गेण, चापत्तिकालमन्तरा, धर्मयुद्धमपित्याज्य, यथायोगं विवेकतः ॥१७०॥ युद्धार्थ च प्रवृत्तानां, घोरहिंसकदेहिनाम् प्रतिसंघादिरक्षाथै, योडव्यंच यथातथम् ॥१७१॥ निरपराधिलोकानां, तत्रापिरक्षणंशुभम् दंडादिकं यथायोगं, शत्रूणां च विवेकतः ॥१७२॥ शत्रुष्वपियथायोग, दया कार्या बलान्वितः स्वघातार्थप्रवृत्तानां, दण्डशिक्षादयादिकम् ॥१७॥ हिंसकघोरपापाना, मुद्धाराय दया शुभा; दातव्यं शिक्षणं तेभ्यो, दयाधर्मस्य मुक्तये ॥१७४।। घोरहिसकदेशेषु, समाजेषुच सद्दया: सर्वोपायः प्रचार्या सा, सर्वस्वार्पणशक्तितः ॥१७॥ गवां संरक्षण कार्य, निःशस्त्राणांदयावताम् । निर्यलानांच बालानां, स्त्रीणांनृणां द्विजन्मनाम् ॥१७॥ शरणाहमनुष्याणां, कर्तव्यंशुभरक्षणम् ; शरणाहीं न हन्तव्या, घोराऽपराधिशत्रवः ॥१७७॥
For Private And Personal Use Only