________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनानांभक्षणार्थ न, पशुपक्ष्यादयःखलु: एवंभगवता प्रोक्तं, महावीरेण रक्षिणा ॥१४२॥ सात्त्विकान्नैःफलैर्दुग्ध, भोजनपानयोगतः जीवन्तिधर्मिणः सन्तो, भक्ता जैनाश्चमुक्तये ॥१४॥ वैरत्यागोभवेन्नून, महिंसापूर्ण सिद्धितः अहिंसापरमोधर्मः सर्वथायोगसिद्धिकृत् ॥१४४॥ सम्यग्दृष्टिजनस्याऽस्ति, सम्यजज्ञानंच सहया, अहिंसाप्राप्तये सम्यज्,-ज्ञानस्य सत्यहेतुता ॥१४॥ अहिंसातोजगन्मैत्री, शुद्धप्रेम प्रकाशते; चित्तशुद्धिर्भवेत्तेन, मोहरोधः प्रजायते ॥१४६॥ ज्ञानादिकगुणानांच, प्राकट्थं चाऽऽत्मशुद्धता मोहादीनांक्षयःपूर्णः भवेद्भावदयाबलात् ॥१४७॥ देशतोविरतानांतु, हिंसानाशोऽस्तिदेशतः सर्वतोविरतानांतु हिंसात्यागस्तु सर्वतः ॥१४८॥ अप्रमत्तमुनीनांतु,-पूर्णदयाऽस्तिभावतः ज्ञानध्यानादिलीनाना, महिंसायोगसिद्धयः॥१४९॥ हिंसावुद्धिविनानैव, हिंसायाः कर्मबन्धनम् हिंसायाः परिणामेन, कर्मवन्धो भवेत्खलु ॥१५॥ सम्यग्दृष्टिमतांनणां, द्रव्यतोभावतोदया, मिथ्यादृष्टिमनुष्याणां द्रव्यदयाऽस्तिबाह्यतः ॥१५१॥ सम्यग्दृष्टिमतांनृणां, सम्यग्दृष्टिबलात्खलु; भवेद्भावयासत्या, सर्वकर्मविनाशकृत् ॥१५२॥ द्रव्यदयातउत्कृष्टाs, नन्तगुणोत्तमाशुभा भावतोऽस्तिदयासत्या, सर्वथामुक्तिदायिनी ॥१५३॥
For Private And Personal Use Only