________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
この
हिंसामयानियुद्धानि, पापमूलानि वेदय; तानित्यत्वादद्यावन्तो, दयांकुरुत देहिनाम् ॥ ११८ ॥ पक्षिषु च कपोताद्याः पशुषुहिमृगादयः जैनामनुष्यसंवेषु, ज्ञेयादयालवो भुवि ॥ ११९॥ जैनधार्मिकशास्त्रेषु, - दयाधर्मस्यपालनम् संवणितमहिंसायाः साम्राज्यं विश्वशान्तिदम् ॥ १२० ॥ प्रख्यातः सर्वखण्डेषु, जैनधर्मोदयामयः तीर्थंकरैश्व सर्वज्ञे, दर्शितोऽनादिकालतः ॥१२१॥ आस्तिकानांदयाधर्मो, नास्तिकानां च हिंसनम् दयाऽस्तिप्रभुभक्तानां नास्तिकाः सन्तिहिंसकाः ॥ १२२ ॥ दयावतांसुयोग्याऽस्ति, प्रार्थनापरमाऽऽत्मनः
जनादिघातकानांतु, दयाऽभावान्न सा मता ॥ १२३ ॥ ara विश्वलोकानां कर्तव्यमस्ति निश्चितम् दयैव सर्वधर्माणां, सारोऽस्तीति विनिश्चितम् ॥ १२४|| दयांविना तु मा जीव ! दयावन्तो हि जीविनः जीवन्तस्तेमृताज्ञेया, जनादेर्हिसकाजनाः ॥ १२५ ॥ अधर्म्याsन्यायतोजीवान्, माजहिभव्यचेतन !! धर्म्यन्यायेनजीव त्व, माजोविकादिसाधनैः ॥ १२६॥ अहिंसादिगुणैर्जीव !! स्वाऽधिकारेणचेतन ! जीवानांजीवनाद्यर्थ, परस्परमुपग्रहः ॥ १२७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निर्दयैर्हिभयत्रस्ता, वर्तन्तेविश्वदेहिनः
सदयैर्निर्भयाजीवा, जीवन्ति त्वं दयांकुरु ॥ १२८॥
दयाsस्तिब्रह्मणोरूपं, हिंसा दुःखस्यरूपकम् प्रभोरूपंदयांज्ञात्वा, दयामाचर चेतन ॥ १२९ ॥
For Private And Personal Use Only