________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
marrioran
स्फुरन्मङ्गलदीपं च, स्थापयानुभवं पुरः। योगनृत्यपरस्तूर्य-त्रिकसंयमवान् भव ॥६॥
व्या०-स्फुरन्मङ्गलेति च पुनः 'स्फुरंत' देदीप्यमानं सर्वद्रव्यभावोपद्रववियुतं मंगलदीपं भावप्रकाशं 'अनुभव' स्पर्शज्ञानं आत्मस्वभावास्वादनयुक्तं ज्ञानं 'पुरः' अग्रे स्थापय, योगाः मनोवाक्कायरूपाः तेषां साधनप्रवर्त्तनरूपं "नृत्यं तांडवं तत्र 'तत्परः' सोद्यमः सन् परमाध्यात्मधारणाध्यानसमाधिरूपसाधनयोग्ययोगपरिणमनरूपतूर्यादिपूजात्रयमयो भव, इत्यनेन आभ्यंतरपूजया तत्त्वानंदमयश्चैतन्यलक्षणं स्वात्मानं तद्रूपं कुरु ॥ ६ ॥ उल्लसन्मनसः सत्य-घण्टा वादयतस्तव। भावपूजारतस्येत्थं, करकोडे महोदयः ॥७॥ ___ व्या०-उल्लसन्मनस इति इत्थं भावपूजारतस्य तव 'महोदयः' मोशः 'करक्रोडे' हस्ततलेऽस्ति किं कुर्वतः १ उल्लसम्मनसः भावोल्लासयुक्तचित्तस्य सत्यपर्यायरूपां घंटां वादयतः शब्दं कुर्वतः इत्यनेन सहर्षसत्यमनउल्लासरूपां घंटां नादयतः सतः पूर्वोक्तपूजाकरणेन सर्वस्वशक्तिप्रादुर्भावरूपो मोक्षो भवति ॥ ७॥ द्रव्यप्रजोचिता भेदो-पासना गहमेधिनाम। भावपूजा तु साधूना-मभेदोपासनात्मिका ॥८॥
व्या-द्रव्यपूजेति 'गृहमेधिनां' गृहस्थानां "भेदोपासनारूपा" आत्मनः सकाशात् अर्हन् परमेश्वरः भिन्नः निष्पलानदचिद्विलासी तस्योपासना सेवना निमित्तालंबनरूपा द्रव्यपूजा 'उचिता' योग्या तु पुनः साधूनां अभेदोपासनात्मिका परमा
For Private And Personal Use Only