________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
...mx ____ व्या०-वस्त्यक्त्वेति यः साधुः ‘बाह्य धनादि, 'आंतरं'' रागादि परिग्रह, तृणवत् 'त्यक्त्वा' संत्यज्य 'उदास्ते' उदासीनः परिग्रहेण मोहकारणेन व्यासंगमूलेन आत्मावलिप्तपंककल्पेन वस्तुतः निस्सारण ! न एष मम नाहमनेन सुखी, मदिरामत्तपंकावलेपतुल्येन, अहं तु ज्ञानाद्यनंतगुणपूर्णः कथं पुद्गलेषु रमे ? इत्यादिभावनया त्यक्तपरिग्रहः, तत्पदांभोजं “जगत्त्रयी" असुरनरामरणिः पर्युपास्ते सेवते इत्यर्थः स त्रिजगद्वंद्यः भवति, तेन स्वरूपानंदरसिकानंदपरिग्रहासक्तिः ॥ ३ ॥
पुनः बाह्यभोगेन निग्रंथत्वमानिनं शिक्षयति-- चित्तेऽन्तर्ग्रन्थिगहने, बहिनिम्रन्थता वृथा। त्यागात्कञ्चुकमात्रस्य, भुजगो नहि निर्विषः ॥४॥ _ व्या०-चित्तेंऽतथिगहन इति 'अंतः' चित्ते चेतनापरिणतो, ग्रंथिः तेन गहने परिग्रहलालसामग्ने, बहिः निर्ग्रथता वृथा निष्फला, यथा-कंचुकमावत्यागात् भुजंगः सर्पः निर्विषो नहि भवति, एवं बाह्यत्यागेन त्यागी न भवति, अंतर्ममत्वपरिहारेण त्यागी भवति ॥ ४ ॥ त्यक्ते परिग्रहे साधोः, प्रयाति सकलं रजः। पालित्यागे क्षणादेव, सरसः सलिलं यथा ॥ ५॥
व्या०-स्यक्ते इति साधोः-परिग्रहे त्यक्ते सति 'सकलं , रजः कर्मसमूहः 'प्रयाति' गच्छति । दृष्टांतयति, “सरसः सलिलं' सरःपानीयं ' पालित्यागे , पालिक्षये क्षणादेव क्षयं यांति, अतः सामान्यपरिणतो लोभपरित्यागेन अनुक्रमेण कर्माभावता भवति ॥ ५ ॥
For Private And Personal Use Only