________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
लोकसंज्ञात्यागाष्टकम्.
लोकः बहुतरः यतः अनार्येभ्यः आर्याः स्तोकाः, आर्येभ्यः जैनाचाराः स्तोकाः जैनाचारवर्तिषु जैनपरिणतिपरिणताः स्तोकाः, अतः बहुलोकानुयायीन, भवनीयमिति ॥ ४ ॥ श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च । स्तोका हि रत्नवणिजःस्तोकाश्च स्वात्मसाधकाः॥५॥
व्याo-श्रेयोऽर्थिनो हि भूयांस इति-'लोके' ब्राह्यप्रवाहे 'श्रेयोऽर्थिनः' धनस्वजनभुवनवनतनुकल्याणार्थिन 'भूयांसः' प्रचुराः संति, च पुनः ' लोकोत्तरे' अमूर्तात्मस्वभावाविर्भावलक्षणे प्रवतमानाः 'नचा नैवेति 'हीति' निश्चितं रखवणिजः स्तोका, तथा 'च' पुनः 'स्वात्मसाधकाः' स्व आत्मा तस्य साधकाः निरावरणत्वनिष्पादकाः स्तोका इति ॥ ५ ॥ लोकसंज्ञाहता हन्त !! नीचैर्गमनदर्शनैः । शंसयन्ति खसत्यागमर्मघातमहाव्यथाम् ॥ ६ ॥
व्या०-लोकसंज्ञेति-'हंत' इति खेदे, 'लोकसंज्ञाहता' लोकसंज्ञाव्याकुलाः 'नीचैर्गमनदर्शनैः। वक्रीभूतशरीरभून्यस्तदृष्ट्या गमनस्य दर्शनैः, 'स्वसत्यागमर्मघातमहाव्यथां स्वीयो यः सत्यागः जैनवृत्तित्यागः स च लोकरंजनाध्यवसायबहुलेन मर्मणि घातं लभते, तस्य घातस्य महाव्यथां महापीडां शंसयंति ज्ञापयंति, 'वयं पीडितेन वक्रशरीरा भ्रमामः' इति शंसयंति कथयति वेति उत्प्रेक्षा, लोकोक्तिभीतित्यागवंतो जीवा आत्मस्वरूपवातका इति ॥ ६ ॥ आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया? । तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शनम् ॥ ७ ॥
१७२
For Private And Personal Use Only