________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
लोकसंज्ञात्यागाष्टकम्
भावलोकः, द्रव्यगुणपर्यायपरिणमनरूपः पर्यवलोकः, इदं च सर्वमपि आवश्यक नियुक्तितः ज्ञेयं । अथवा - द्रव्यलोकः संसाररूपः अप्रशस्त भावलोकः परभावैकत्वजीवसमूहः, अत्र भवलोकाप्रशस्तभावलोकस्य संज्ञा त्याज्या, लोकसंज्ञा च नयसप्तकेन धर्मार्थिभिः परिहरणीया । प्राप्तः षष्ठं गुणस्थानं, भवदुर्गाद्रिलङ्घनम् । लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तर स्थितिः ॥ १ ॥
व्या० - प्राप्त इति - 'मुनिः संयमी आस्रवविरितः षष्ठं' सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः 'लोकसंज्ञा' लोकैः कृतं तत्कर्त्तव्यं गतानुगतिकतानीतिरित्यत्र 'रतः ' रागी गृहीतग्रहः न स्यात् लोकैः कृतं तदेव करणीयं इति मतिं निवार्य आत्मसाधनोपायरतः स्यात्, किंभूतं षष्ठं गुणस्थानं ? भवः संसारः स एव दुर्गाद्रिः विषमपर्वतः तस्य लंघनं, किंविशिष्टः मुनिः ? लोकोत्तरस्थितिः लोकातीतमर्यादया स्थितः, लोको हि विषयाभिलाषी, मुनिः निष्कामः, लोकः पुद्गलसंपत् ज्येष्ठत्वमानी मुनिर्ज्ञानादि - संपदा श्रेष्ठः, अतः किल लोकसंज्ञया किं तेषाम् ? ॥ १ ॥ तथा चिन्तामणि दत्ते, बठरो बदरीफलैः । हहा जहाति सद्ध, तथैव जनरञ्जनैः ॥ २ ॥
व्या० - यथा चिंतामणिमिति - 'यथा येन प्रकारेण कश्चित् 'बठरः' मूर्खः बदरीफलैः चिंतामणिं दत्ते, तथैव मूढः 'जनरंजनैः '' लोक श्लाघाभिलाषैः सद्धर्म द्रव्याचरणतत्त्वानुभवलक्षणं 'हहा' इति खेदे 'जहाति' त्यजति, इत्यनेन जिनभक्ति श्रुतश्रवणाहारत्यागादिकं यशः पूजादिना हारयति । उक्तं च
१७०
For Private And Personal Use Only