________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
तवष्टषष्टकम्
तत्त्वं वस्तुस्वरूपं जीवे जीवत्वं तत्त्वं अनंतचैतन्यरूपं अजीवे अचैतन्यस्वरूपं तत्त्वं नाम अविपरीतस्याद्वादगोचरं जीवादिपदा
स्वरूपं तत्रापि स्वस्वस्थाने धर्माधर्माकाशपुद्गलजीवानां तत्त्वत्वं तथापि अस्य ममात्मतः मत्स्वरूपं शुद्धचिद्रपं अनंतानंदरूपं असंख्येयप्रदेशानंतज्ञानादिपर्यायपरिणामिकोत्पादव्ययत्रौ व्यात्वषड्रगुणपरिणतागुरुलघुपारमार्थिकैकांतिकात्यंतिकनिरतिशयाबाधनिः श्रेयसरूपं स्वतवं तत्र दृष्टिः दर्शनं श्रद्धाप्रतिप्रेक्षणं वा तवावलोकनं यथार्थावबोधयुक्ता श्रद्धादृष्टिः तत्त्वदृष्टिः, सा च नामतः उल्लापः अनेकानां, स्थापनातः तद्विचारणा स्थिरचित्तानां मुद्रान्यासाद्यवलंबिनां, द्रव्यतः संवेदनज्ञानं विविक्ततत्वानां, भावतः अनुभावात्मस्पर्शज्ञाननिमग्नचित्तानां संवेदनज्ञानं यावन्नयचतुष्टयं नयत्रयं स्पर्शज्ञानात्मकसम्यग्दर्शनसम्यक् चारित्रैकत्वध्यानैकतानिष्पन्न केवलज्ञानिनां उत्सर्गतः तत्त्वदृष्टिबोव्या सर्वोपायसमूहतः स्वतत्त्वे दृष्टिः कार्या तदर्थमुपदेशः । रूपे रूपवतीदृष्टि, र्दृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ॥ १॥
"
"
व्या० - रूपे इति - " रूपवती दृष्टिः " पौद्गलिकापौद्गलिकात्मिका पुनलस्वरूपग्राहिणी ' दृष्टिः चक्षुः ' रूपं श्वेतादिभेदं दृष्ट्वा ' रूपे ' वर्णादौ वर्णगंधरसस्पर्शलक्षणे ' विमुह्यति ' मोहसाद्भवति पुनः ' अरूपिणी ' रूपरहिता दृगू ज्ञानरूपा आत्यचैतन्यशक्तिलक्षणा तत्त्वदृष्टि: ' नीरूपे ' निर्गतमूर्त्तधर्मिणि वर्णादिरहिते आत्मनि शुद्धचैतन्यलक्षणे ' मज्जति मग्नतां प्राप्नोति स्वरूपलीना भवति अतः बाह्यदृष्टित्वं अनादि विहाय स्वरूपोपयोगे दृष्टिः कार्या ॥ १ ॥
"
१४६
For Private And Personal Use Only