________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञानगंजारी टीका.
कमुरूपता अब साधनावसरे सा भूमिकाभेदतः भूमिकासुणस्थानावस्था तस्या भेवतो ध्यानाद्यवसरे ज्ञानं मुख्यतः अर्वाक्क्रयैव मुख्यतः तथा सर्वत्र साधनसामग्री यथायोगं कार्या । उक्तं भगवतीटीकायां
जई जिणमयं पवज्जह, ता मा ववहारनिच्छ एमुयह । इक्केण विणा तित्थं, छिज्जई अन्ने उ त्तच्चं ॥ १ ॥ अतः साधनोद्यताः सर्वमपि स्वस्थाने स्थापयंति ॥७॥ सज्ञानं यदनुष्ठानं, न लितं दोषपङ्कतः । शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः ॥ ८॥
Acharya Shri Kailassagarsuri Gyanmandir
८९
२७७
व्या० - सज्ञानमिति - यदनुष्ठानं यदाचरणं सज्ञानं सम्यग्ज्ञानयुक्तं, दोषा इहलोकाशंसापरलोकाशंसाकोधमानादयः तैः न लिप्तं नाश्लेषितं तस्मै भगवते पूज्याय नमः, किंभूताय भगवते, शुद्धबुद्धस्वभावाय, शुद्धः सर्वपुद्गलाश्लेषरहितः, बुद्धः ज्ञानमयः, स्वभावो यस्य स तस्मै इत्यनेन यथा सत्ता तथा निष्पत्रः निरावरणः सिद्धस्वभावः तस्य साधका ज्ञानक्रिया सावधाना, तत्र भावना अनादिघोषणाघोषितपरभावात्मबुद्धिरूपासद्ज्ञानपरभावास्वादनसंमिलित विभावाऽभ्रपटलतिरोमूततत्वज्ञान भानुबहूलीमूतमिथ्यात्वासंयममहामोह तिमिरांधीभूतभूतानां मध्ये केचन सदागमांजनतत्त्वपीतपानीयपानोत्पन्नसद्विवेकाः पश्यंति ज्ञानावरणादिकर्मच्छादितविभावमलतन्मयीभू तशरीरादिपुद्गलस्कंधैकताप्राप्तोऽपि मूर्त्तभावोऽपि छिन्नोऽपि अमूर्त्ताखंडज्ञानानंदानंताव्याबाधस्वरूपमात्मानं भुज्यमानविषया अपि रोचयंति स्वतत्त्वानुभवनं, नानोपायार्जितमपि त्यजति धनौषधविचित्रतोद्भूतं वर्जयंति स्वजनकवर्ग कोटि
For Private And Personal Use Only