________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२२५
भ्यस्य, शेषेण वागविस्ताररूपेण भूयसाऽपि वेदनेन ज्ञानेन को निर्बंध: किं बहुतरेण जल्पज्ञानेन ? भावनाज्ञानं स्वल्पमप्यमृतकल्पं अनादिकर्मरोगापगमक्षममिति ॥ २ ॥
स्वभावलाभसंस्कार-कारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ॥ ३ ॥
व्या० - स्वभावलाभेति, स्वभावो ज्ञानाद्यनंतगुणपर्यायरूपः, तस्य लाभः प्राप्तिः संस्कारो वासना तद्प्राग्भावता वा तस्य स्मरणं सदैव निरंतरं तदुपयोगिताज्ञानं इष्यते तत्त्वलाभतः, अन्यत् सर्व वाग्विलासरूपं स्वस्वरूपास्पर्शिबाद्यज्ञानं लौकिकलोकोत्तरागमविकल्परूपं सर्व व्यांव्यमात्रं व्याक्षेपरूपं, यदात्मपरविभजनात्मैकत्वपरपरित्यागाय न भवति तत्सर्वं विलापरूपमरण्ये, तथा च, हरिभद्रपूज्यैः
अकुत्थासंयतं नाणं, सुअपाठुन विन्नेयं । अनुयोगद्वारे
यो० ह० - सिक्खियं ठियं मियं जायं जाव गुरुवयणोवयं वायणाए पुच्छणाए परिअट्टणाए धम्मकहाए नो अणुपेहाए ता दवअं ।
इति प्राप्तचेतनाक्षयोपशमः संज्ञाचतुष्टये इहलोकाशंसया परलोकाशंसया किं किं नास्ति, यस्तु सकलपुद्गलोद्विग्नः स्वस्वभावार्थी आत्मानं यथार्थावबोधेन जानाति तज्ज्ञानम्, तत्रोद्यमः कार्यः स्वसाध्यसिद्धये, उक्तं चआत्माज्ञानभवं दुःखं, आत्मज्ञानेन हन्यते । अभ्यस्यं तन्नघातेन (?) येनात्मा ज्ञानमयो भवेत् ॥१॥
29
३७
For Private And Personal Use Only