________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
ज्ञानमंजरी टीका.
॥ अथ पञ्चमं ज्ञानाष्टकम् ॥ मोहत्यागश्च ज्ञानाद् भवति, अतः ज्ञानष्टकं लिख्यते । तत्र ज्ञानलक्षणं, 'व्यवहाराव्यभिचाररूपं सर्वपदार्थावबोधरूपं सामान्यविशेषात्मनि पदार्थजाते विशेषबोधलक्षणं ज्ञानं, ज्ञायते अनेनेति ज्ञानं । उक्तं च उत्तराध्ययने । "एयं पञ्चविहं नाणं, दवाण य गुणाण य । पजवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥”
(अ० २८ । गा० ५) इति । आत्मनो विशेषलक्षणं नाम ज्ञानं शब्दालापरूपं, स्थापनाज्ञानं सिद्धचक्रादौ स्थापितं द्रव्यज्ञानं आगमगतज्ञानपदावबोधी अनुपयुक्तः, नोआगमतः द्रव्यज्ञानं अनुपयुक्तावस्था इति तत्त्वार्थे । तथा द्रव्यज्ञानं पुस्तकन्यस्तं । अथवा वाचना-पृच्छना-परिवर्तना-धर्मकथानुप्रेक्षादीनां द्रव्यज्ञानं, मावज्ञानमुपयोगपरिणतिः मत्यादिप्रकारं स्वपरविवेचकं परिच्छेदावलोकनाभासनादिपर्याय, तत्र नैगमेन ज्ञानं, भाषादिस्कंधज्ञानं । संग्रहेण सर्वजीवज्ञानं अभेदोपचारात्, व्यवहारेण पुस्तकादिज्ञानं, ऋजुसूत्रेण तत्परिणामसंकल्परूपं ज्ञानं, अथवा-ज्ञानहेतुवीर्य, नैगमेन संग्रहेण आत्मा व्यवहारेण क्षयोपशमीभूतज्ञानविभागप्रवृत्तिः, ऋजुसूत्रेण वर्तमानबोधः यथार्थायथार्थरूपमुभयज्ञानं, शब्दनयेन सम्यग्दर्शनपूर्वकयथार्थावबोघलक्षणं कारणकार्यसापेक्षं ज्ञानं स्वपरप्रकाशं स्याद्वादोपेतं अर्पितानर्पितादियुक्तं सम्यग्ज्ञानं, समभिरूढनयेन सकलज्ञानवचनपर्यायशक्तिप्रवृत्तिरूपं, एवंभूतनयेन मत्यादिस्वस्वरूपपूर्णवंभूतता
For Private And Personal Use Only