________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८२ ) लघु दर्शनशाने प्राप्य मानेन हीने, परमसुखनिधाने यात्यसौ सिद्धिधाम्नि सप्ततिशतकस्थान-च्छायेयं विहिता शुभा । बुद्धिप्रभाविनी जीयात्-ऋद्धिसागरसरिणा ।।
प्रशस्तिः श्रीमन्सहावीरजिनेन्द्रशासने, प्रशस्तिपात्रं तपगच्छपादपः। अनेकशाखाभिरसौ विराजते, सद्धर्मसुस्वादुफलप्रदायकः ॥१॥ तदीयसच्छायसमाश्रितोऽभू-च्छीहीरसूरिर्जगदेकपूज्यः । पट्टे तदीये च परम्परातः, संवेगिमुख्योमुनिनेमिसागरः ॥२॥ तत्पादपङ्केरुहषट्पदश्रीः, सम्यक्रियोद्धारविधानदक्षः । लक्षीकृताऽऽत्मोन्नतिधर्मधीरो-निर्मानमोहोरविसागरोऽभूत्॥३॥ तच्छिष्यमुख्यः सुखसागरः सुधी-चारित्रचूडामणिशान्तमानसः व्यराजताऽखण्डितशुद्धभावनः, सम्यक्त्वतत्त्वार्थविदांसुसम्मतः तत्पट्टपूर्वाचलतिग्मरश्मिः, पर शतग्रन्थविधायकोऽभूत् । योगीन्द्रपूज्यः क्षतकर्मराशिः, कृतावधानः शिवदक्रियायाम्।५। सर्वेषु जीवेषु समानभावः, श्रीबुद्धिपाथोनिधिसूरिवर्यः । यद्वाचनाम्भोनिधिमजनेन, जातं पवित्रं जगदण्डमेतत् ॥६॥ तत्पट्टपूर्वाचलभानुमाली, बभूव श्रीमानजिताऽब्धिमूरिः । गुरुप्रतापेन ततान सोऽपि, ग्रन्थाननल्यान् स्वमतिप्रभावात् ।। तच्छासने श्रीयुतबुद्धिसरि--क्रमाऽब्जरेणूदधि ऋद्धिसरिः । छायार्थवादं सुगमं ततान, सुखाऽवबोधाय सतां जनानाम् ॥८॥
॥समाप्तः॥
For Private And Personal Use Only