________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७२) उक्त्वा कुरु न तद्भङ्गं, कुरु मा दुष्टसङ्गमम् । विश्वसीहि न दुष्टेषु, मा दासो व्यसनी नव॥१२८॥ व्यसनाद् दुर्गणाद् दूरं, वसतां मुक्तिद्भवेत् , अन्यायेन न धर्मः स्या-न्न श्रेयः पक्षपाततः॥१२९॥ आत्मवद्यत्र नीतिः स्या-त्तत्र मच्छक्तिरुल्लसेत् । यत्र विश्वासिघातो न, तत्र पुण्यप्रभोदयः ॥१३॥ यत्र किञ्चिन्न नेदोऽस्ति, सत्यैक्यं यत्र पाल्यते । देशराज्योभयोवृद्धिः, स्यादानन्दो गृहे गृहे ॥१३॥ सम्मतिर्यत्र राज्येषु, तत्र शान्तिश्च वर्तते । प्रामाणिका यतो जैना-वृद्धिः स्यात्तत्र सर्वतः १३२ न कुर्यादपरस्येष्यो, वृत्तिर्यत्राऽस्ति सात्त्विकी। ज्ञायन्ते सरला दार्या, आर्य भूमिस्तु धर्मतः ॥१३३॥ विश्वासो मयि यस्याऽस्ति, स आनन्दं समभुते । संशयाऽऽत्मा भवेन्नष्टः, प्रकाशन्ते न शक्तयः ॥१३४॥ नास्तिकैः सह वासेन, श्रद्धा नश्यति तत्क्षणात् । अश्रद्धाया गुणाभावो, विनश्यन्ति प्रकाशिताः १३५ नाऽश्रद्धया फलेन्मंत्रं, कार्यसिकि न तां विना । मयि श्रद्धालवो भव्या, लभन्ते सकलान्गुणान् १३६ तर्कादयः प्रमाणानि, सन्त्यश्रद्धालुबोधने । श्रद्धाप्रमाणमुत्कृष्टं, बहुशक्तिगुणाकरः ॥१३७ ।।
For Private And Personal Use Only