________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४७ )
मृषाऽभिमानं कुरु नाऽपि किञ्चिन्, न्यायो यत स्तत्र विरोधशान्तिः सद्वक्तृवृन्दान्कुरु चाऽऽत्मपार्श्वे, प्राणाः पतेयुर्न वद त्वसत्यम् ॥ त्वं मारयाशु स्वकदुष्टवृत्तीः, त्वं श्वद्विद्धि धनं परेषाम् परस्त्रियो विद्धि च मातृतुल्याः, सम्मानय त्वं च महाऽऽत्मनोऽपि । नवं नवं ज्ञानमथो कुरु त्वम्, प्रवर्त्तयाज्ञाश्च मम स्वदेशे दयां च विस्तारय सर्वदेशे, पशूश्च संपालय हूयमानान् । संरक्षता द्रोगिजनाननाथान्, गृहाण सन्मानवजन्मलाभम् आकर्णयोघोष मपि प्रजानां, क्लीबो भव त्वं नहि सत्कलासु । विद्धि स्वतुल्यानिह सर्वजीवान्, सदैव कर्माचर यद्विधेयम् राज्याबहि दुर्व्यसनानि कृत्वा, नारी र्नरान्सौख्ययुतान्कुरुष्व ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥३॥
॥ ४ ॥
॥ ५॥
।। ६ ।।
॥७॥