________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४५ )
यो नन्दिवर्धन नमेच्च सहस्रवारं, स्तूयादपारमथ मां विधिभिः समर्चेत् । भूत्वा प्रमोदनपरोविदधच्च कर्म स्वस्वाऽधिकारकरणे प्रभवेच्च जव्यः ॥ १२२ ॥ हितकृन्निर्मितः सत्यं, ग्रन्थोऽयं शोकवारकः । मर्तॄणां मृत्युतः पश्चाद्भणितः सुखकृद्भवेत् ॥ १२३ ॥ चिन्ता दूरमुपैति मोहसहितः शोकोऽपि याति क्षयं, धर्मप्राप्तिकरा भवन्ति पठना न्नाय नरा भूतले । वाणीयं जयकारिणी जिनमहावीरप्रभोर्वर्त्तते, श्री सूरीश्वरबुद्धिसागरकृतो ग्रन्थो भवेच्छ्रेयसे १२४
For Private And Personal Use Only