________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४३ )
॥ ११० ॥
पीतानि सर्वाब्धिजलानि जीवैः संभक्षिताः पार्थिवपुद्गलाश्च । आत्माऽवबोधं च विना स्वतोषं, जाता न तेषां सुखशान्त्यवासिः येऽङ्गीकरिष्यन्त्यथ जैनधर्म समेत्य ते मुक्ति मनन्तकालम् । सुखेषु वत्स्यन्ति तदत्र का दृढं मनः शाधि सुदर्शने त्वम् अनन्तकालचक्राद्धि, मुक्तो भवितुमाऽऽत्मनः । ज्ञानदर्शनचारित्रा-, ण्येव सम्यगुपासय ॥ १११ ॥ आत्माऽभिन्नस्तथानित्यो, ज्ञानानन्दस्वरूपकः । आत्मन्यस्ति स वै धर्मः कर्मभिस्स तिरोहितः॥११२ ॥ तीर्थकराणा मृषनादिकानां, सतांत्रयोविंशतिसंख्यकानाम् । आप्तश्चतुर्विंशतितीर्थकर्त्ता, अहं महावीरजिनोऽवतीर्णः मातापितृजने दिवंप्रतिगते नन्द्यादिपौराञ्जनान्, जैनं धर्ममुपादिशन्मृतिजवच्छोकापहारक्षमम् ॥ दीक्षाम्प्राप्य समेत्य केवलिदशां संस्थाप्य तीर्थ निजं, विश्वानुद्धृतवान्नसौ मम महा-वीरो विद्ध्याच्छिवम्११४
॥ ११३ ॥
For Private And Personal Use Only
॥ १०९ ॥