________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३५) सुताः षष्टिसहस्त्राणि, मृताः सर्वेऽपि चैकदा । मुमूर्छ सागरश्चक्री, वैराग्यज्ञानतोऽतरत् ॥ ६५ ॥ बहुवर्ष मयापयच्छुचा मरुदेवी निजपुत्रमोहतः अनवद्गतमोहिनी यदा क्षणतो मुक्तिपुरी मथाविशत् ६६ रामो मृतो देति जगाद देवः श्रीलक्ष्मणप्रीतिपरीक्षणार्थम् । निशम्य हा भ्रातरिति ब्रुवाणो, जही शरीरं नृपलक्ष्मणोऽपि
॥ ६७ ॥ केनाऽपि सार्द्ध न च कोप्यगच्छ, स्वस्वं च वाटं सकला अगच्छन् । राजा महान्रावणसन्निभोऽपि, प्राणांश्च हित्वा नरकंजगाम कर्मानुसारं परयोनिमायात्, भावी न संयात्यपसारितेऽपि । येऽकम्पयन्दमामपि पादघातै, स्तेऽपि प्रयाता अथच प्रयान्ति
॥ ६९॥ तेषां शरीरस्य नचाऽपि नाम्नो, न वर्त्ततेऽपि स्मृति रत्रकाले। असंख्यकालस्य जिनेश्वराणा मद्याऽपि तावन्नच नामतस्थौ
॥७०॥
For Private And Personal Use Only