________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३) रोदरोदं मृत्यु मायान्ति सर्वे खब्ध्वा मृत्यु कोऽपि नाऽऽयाति पश्चात् । ये जानन्त्याऽऽत्मस्वरूपं स्वचित्ते तेषां शान्ति र्जायते सत्यसिद्धा ॥ ५० ॥ ज्ञात्वातत्वविनिश्चयं कुरुत वा शान्तं तथा स्वं मनः, धम्र्ये चाऽध्वनि गच्छतां नच भवेत्कश्चिञ्चमिथ्याघ्रमः। जीवा अन्यत्नवेषु कर्मगतिनिर्गच्छन्ति भुञ्जन्ति वा, स्वेषां कर्मविपाकमेव नियतो न्यायः सखे वर्तते ५१ कर्माऽऽत्मसङ्गोऽयमनादिकालात् , नियोजिते कर्मणि चाऽऽत्मतत्त्वात् प्रादुर्भवत्येव हि शुद्धतत्वम्, लोकेषु सारं स्फुरदाऽऽत्मतत्वम्
॥५२॥ आत्मज्ञानी न बध्नाति, कर्म कर्मकरोऽपिसन् । आत्मोपयोगतश्चाऽस्ति, धर्म आसक्तिवर्जितः ॥५३॥ अज्ञानी निर्बलोऽतीव, ज्ञानीतु बलवान्महान् । कर्मयोगी तु सम्भूय, ज्ञानी कर्मान्त माचरेत् ॥५४॥ सम्यज्ञानी त्वकर्मा स्या, त्कुर्वन्सर्वाः क्रिया अपि अपुनर्बन्धतां याति, आत्मधर्म च गच्छति ॥५५॥ आत्मन्येवाऽऽत्मधर्मोऽस्ति दर्शनज्ञानरूपकः। वीर्यानन्तस्वरूपोऽस्ति, कर्मनाशात्प्रकाशते ॥५६॥
For Private And Personal Use Only